पूर्वम्: ४।३।७७
अनन्तरम्: ४।३।७९
 
सूत्रम्
ऋतश्ठञ्॥ ४।३।७८
काशिका-वृत्तिः
ऋतष्ठञ् ४।३।७८

विद्यायोनिसम्बन्धेभ्यः इत्येव। ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसम्बन्धवाचिभ्यः ठञ् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। वुञो ऽपवादः। विद्यासम्बन्धवाचिभ्यस् तावत् होतुरागतं हौतृकम्। पौतृकम्। योनिसम्बन्धवाचिभ्यः भ्रातृकम्। स्वासृकम्। मातृकम्। तपरकरणम् मुखसुखार्थम्। विद्यायोनिभ्याम् अन्यत्र, सावित्रम्।
न्यासः
ऋतष्ठञ्। , ४।३।७८

"तपरकरणं मुखसुखार्थम्" इति। अथ दीर्घनिवृत्त्यर्थं कस्मान्न भवति? असम्भवात्। न हि विद्यायोनिसम्बन्धिषु किञ्चिदृकारान्तं प्रातिपदिकमस्ति यन्निवृत्त्यर्थस्तकारः स्यात्॥
बाल-मनोरमा
ऋतष्ठञ् १४३६, ४।३।७८

ञतष्ठञ्। ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः। "तत आगत" इत्येव। हौतृकं भ्रातृकमिति। उकः परत्वाट्ठस्य कः।

तत्त्व-बोधिनी
ऋतष्ठञ् ११२५, ४।३।७८

ऋतष्ठञ्। "विद्ययोनिसंबन्धेभ्यः" इति वर्ततेस तदाह---वुञोऽपवाद इति। "उष्क"ञिति वक्तव्ये तपरकरणं ठञ्ग्रहणं च चिन्त्यप्रयोजनमिति प्राञ्चः। "पौतृकी विद्ये"त्यत्र ङीबर्थं ठञ्ग्रहणमिति तु तत्त्वम्। न च "टिड्ढे"ति सूत्रे कञ्ग्रहणान्ङीप्सिध्यतीति वाच्यं, यादृशी,तदृशीकत्याद्यसिद्धेः। तदनुबन्धकग्रहणेनाऽतदनुबन्धकस्याऽग्रहणात्, ल्"त्यदादिषु दृशःटैति कञो द्व्यनुबन्धकत्वात्। तपरकरणं विहाय "उष्ठ"ञित्येव सुवचमित्याहुः।