पूर्वम्: ४।३।८०
अनन्तरम्: ४।३।८२
 
सूत्रम्
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॥ ४।३।८१
काशिका-वृत्तिः
हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः ४।३।८१

हेतुभ्यो मनुस्येभ्यश्च अन्यतरस्यां रुप्यः प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। मनुष्यग्रहणम् अहेत्वर्थम्। हेतुः कारणम्। हेतुभ्यस् तावत् समादागतम् समरूप्यम्, समीयम्। विषमरूप्यम्, विषमीयम्। गहादित्य्वाच् छः। मनुस्येभ्यः देवदत्तरूप्यम्। यज्ञदत्तरूप्यम् दैवदत्तम्। याज्ञदत्तम्। बहुवचनं स्वरूपविधिनिरासार्थम्।
लघु-सिद्धान्त-कौमुदी
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ११०४, ४।३।८१

समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥
न्यासः
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः। , ४।३।८१

"समादगतम्" इति। समाद्धेतोरागतमस्यार्थः। केन पुनरिह पञ्चमी? असमादेव ज्ञापकात्। यदयं पञ्चम्यन्तात् प्रत्ययमाह ततो ज्ञायते-- हेतौ पञ्चमी भवति॥
तत्त्व-बोधिनी
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ११२७, ४।३।८१

हेतुमनुष्येभ्यो। मनुष्यग्रहणमहेत्वर्थं, बहुवचनंम तु स्वरूपविधिनिरासार्थम्। समरूप्यमिति। "विभाषा गुणे" इत्यत्र "विभाषे"ति योगविभागादगुणवचनादपि पञ्चमी। योगविभागे तु "बाहुवकं प्रकृतेस्दनुदृष्टे"रिति लिङ्गम्।