पूर्वम्: ४।३।९५
अनन्तरम्: ४।३।९७
 
सूत्रम्
अचित्ताददेशकालाट्ठक्॥ ४।३।९६
काशिका-वृत्तिः
अचित्ताददेशकालाट् ठक् ४।३।९६

देशकालव्यतिरिक्तादचित्तवाचिनः प्रातिपदिकाट् ठक् प्रत्ययो भवति सो ऽस्य भक्तिरित्येतस्मिन् विषये। अणो ऽपवादः। वृद्धाच् छं परत्वाद् बाधते। अपूपो भक्तिरस्य आपूपिकः। पायसिकः। शाष्कुलिकः। अचित्तादिति किम्? दैवदत्तः। अदेशादिति किम्? स्रौघ्नः। अकालातिति किम्? ग्रैष्मः।
न्यासः
अचित्ताददेशकालाट्ठक्। , ४।३।९६

ननु च देशकालयोरचित्तयोः प्रतिषेधान्नञिवयुक्तन्यायेन (व्या।प।६५) प्रकृतिचेतनैव विज्ञास्यते, तत्किमचित्तग्रहणेन? नैतदस्ति; विना हि तेनादेशकालादिति न ज्ञायते-- किमयं प्रकृतिनिर्देशः, उत देशकालयोः प्रतिषेध इति? तत्रानिष्टमपि विज्ञायते-- अदेशशब्दात् , कालशब्दाच्चेति। अचित्तग्रहणे तु सति तेनातिप्रसङ्गे सत्यदेशकालादिति प्रतिषेधो विज्ञायते। अस्मादेव च प्रतिषेधादचित्तादिति स्वरूपग्रहणं न भवति। स्वरूपग्रहणे हि देशकालाभ्यां प्रसङ्गो प्रतिषेधं न कुर्यात्॥
बाल-मनोरमा
अचित्ताददेशकालाट्ठक् १४५५, ४।३।९६

अचित्ताददेश। देशकालव्यतिरिक्ताऽप्राणिवाचिनः ठक्स्यादुक्तविषये। अपूपाः भक्तिरिति। सामान्याभिप्रायं भक्तिरित्येकवचनं, "वेदाः माण"मितिवत्। पायसिक इति। पयो भक्तिरस्येति विग्रहः।