पूर्वम्: ४।४।१०२
अनन्तरम्: ४।४।१०४
 
सूत्रम्
गुडादिभ्यष्ठञ्॥ ४।४।१०३
काशिका-वृत्तिः
गुडाऽदिभ्यष् ठञ् ४।४।१०३

गुडाऽदिभ्यः शब्देभ्यः ठञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। गुडे साधुः गौदिकः इक्षुः। कौल्माषिको मुद्गः। साक्तुको यवः। गुड। कुल्माष। सक्तु। अपूप। मांसौदन। इअक्षु। वेणु सङ्ग्राम। सङ्घात। प्रवास। निवास। उपवास। गुडादिः।
काशिका-वृत्तिः
पथ्यतिथिवसतिस्वपतेर् ढञ् ४।४।१०४

पथ्यादिभ्यः शब्देभ्यः ढञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। पथि साधु पाथेयम्। आतिथेयम्। वासतेयम्। स्वापतेयम्।
न्यासः
गुडादिभ्यष्ठञ्। , ४।४।१०३

न्यासः
पथ्यतिथिवसतिस्वपतेर्ढञ्। , ४।४।१०३

बाल-मनोरमा
गुडादिभ्यष्ठञ् १६३५, ४।४।१०३

गुडादिभ्यष्ठञ्। साक्तुको यव इति। सक्तुषु साधुरित्यर्थः। गुडादित्वाट्ठञ्। उगन्तत्वाट्ठस्य कः।

बाल-मनोरमा
पथ्यतिथिवसतिस्वपतेर्ढञ् १६३६, ४।४।१०३

पथ्यतिथीत्यादि स्पष्टम्।

तत्त्व-बोधिनी
गुडादिभ्यष्ठञ् १२६०, ४।४।१०३

गुडादिभ्यष्ठञ्। गुड, कुल्माष, सक्तु, अपूप, माष,[मांस], ओदन, इक्षु, वेणु, सङ्ग्रम, सङ्घात, प्रवास, निवास, वृत्।

तत्त्व-बोधिनी
पथ्यतिथिवसतिस्वपतेर्ढञ् १२६१, ४।४।१०३

वसतिरिति। "वसेश्च"त्यतिप्रत्ययः। स्वस्य पति स्वपतिः=आढ्यः, तस्मिन्साधु स्वापतेयम्। सभाया यः। यति तु तित्स्वरः स्यात्, "क्रतुर्भवत्युक्थ्यः"इति वत्। न च "यतोऽनावः"इत्याद्युदात्तता शङ्क्या। "यदुत्पत्तिवेलायां व्द्यच्कस्य यदन्तस्यादिरुदात्तः"इति वेदभाष्ये स्थापितत्वात्। पक्षान्तरे तु "नमः शष्प्याय च फेन्याय च"इत्यादिवदाद्युदात्तः स्यात्। एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यमुरोधेन क्वचि()त्कचिव्द्याख्येयमिति तत्त्वम्।