पूर्वम्: ४।४।१२२
अनन्तरम्: ४।४।१२४
 
सूत्रम्
मायायामण्॥ ४।४।१२३
काशिका-वृत्तिः
मायायाम् अण् ४।४।१२४

असुरशब्दात् षष्ठीसमर्थात् मायायां स्वविशेषे अण् प्रत्ययो भवति। पूर्वस्य यतो ऽपवादः। आसुरी माया स्वधया कृतासि।
न्यासः
मायायामण्। , ४।४।१२३

मायायां नेति वक्तव्येऽण्ग्रहणं विस्पष्टार्थम्