पूर्वम्: ४।४।१२५
अनन्तरम्: ४।४।१२७
 
सूत्रम्
वयस्यासु मूर्ध्नो मतुप्॥ ४।४।१२६
काशिका-वृत्तिः
वयस्यासु मूर्ध्नो मतुप् ४।४।१२७

वयस्वानुपधानो मन्त्रो यासां ता वयस्याः, तास्वभिधेयासु मूर्ध्नो मतुप् प्रत्ययो भवति। पूर्वस्य यतो ऽपवादः। यस्मिन् मन्त्रे वयःशब्दो मूर्धन्शब्दश्च विद्यते स वयस्वानपि भवति मूर्धन्वानपि, यथा मूर्धा वयः प्रजापतिश् छन्दः इति। तत्र वयस्वच्छब्दादिव मूर्धवच्छब्दादपि यति प्राप्ते मतुप् विधास्यते। मूर्धन्वतीर् भवन्ति। वयस्या एव मूर्धन्वत्यः। वयस्यासु इति किम्? यत्र मूर्धन्शब्द एव केवलो न वयःशब्दस्न् तत्र मा भूत्। मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा
न्यासः
वयस्यासु मूध्र्नो मतुप्। , ४।४।१२६

"मूर्धन्वतीः" इति। "उगितश्च" ४।१।६ इति ङीप्। वयस्यास्ता मूर्धन्वत्यश्चेति वयस्वामनुपधानो मन्त्रः, तासामिति वयस्याः। मूर्धन्वानुपधानो मन्त्रः, तासामिति मूर्धन्दत्यः। "यत्रि" इत्यादि। न ह्रेवंविधो यासामुपधानो मन्त्रस्ततो वयस्यात्विति वचनात्। अत्र मूर्धशब्द एवास्ति, न वयः शब्दः, ततो न भवति--मूर्धन्वत्य इति। "वक्तव्ये" इति। तद्वानित्यधिकारान्मतुबन्तान्मर्धशब्दात्प्रत्ययेन भवितव्यम्। अतः "मूर्धन्वतःर" इति युक्तं वक्तुम्, तन्मतुपो भाविनं लुकं चेतसि कृत्वा। एवंलघु सूत्रं भवति॥