पूर्वम्: ४।४।१४०
अनन्तरम्: ४।४।१४२
 
सूत्रम्
सर्वदेवात् तातिल्॥ ४।४।१४१
काशिका-वृत्तिः
सर्वदेवात् तातिल् ४।४।१४२

सर्वदेवशब्दाभ्यां तातिल् प्रत्ययो भवति छन्दसि विषये स्वार्थिकः। सर्वतातिम्। देवतातिम्।
बाल-मनोरमा
शम्याः श्लञ् १५०१, ४।४।१४१

शम्याः ष्लञ्। शमीशब्दो गौरादिङीषन्तः, तस्मात्षष्ठ()न्तादवयवे विकारे च ष्लञ् स्यादित्यर्थः। षकारलकारावितौ। "अनुदात्तादेश्चे"त्यञो।ञपवादः। शामीलं भस्मेति। शम्या विकार इत्यर्थः। शामीली रुआउगिति। शम्या विकार इत्यर्थः। वरुणप्रघासेषु शमीमय्यः रुआउचः प्रसिद्धाः। अवयवे तु शामीली शाखा।