पूर्वम्: ४।४।१५
अनन्तरम्: ४।४।१७
 
सूत्रम्
भस्त्राऽ‌ऽदिभ्यः ष्ठन्॥ ४।४।१६
काशिका-वृत्तिः
भस्त्रादिभ्यः ष्ठन् ४।४।१६

भस्त्रा इत्येवम् आदिभ्यः तृतीयासम्र्थेभ्यः हरति तियेतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति। भस्त्रया हरति भस्त्रिकः। भस्त्रिकी। भरटिकः। भरटिकी। भस्त्रा। भरट। भरण। शीर्षभार। शीर्षेभार। अंसभार। अंसेभार। भस्त्रादिः।
न्यासः
भस्त्रादिभ्यः ष्ठन्। , ४।४।१६

भस्त्रादिषु "शीर्षेभार" इति पठ()ते। तत्रास्मादेव निपातनाच्छिरसः शीर्षभावः, "सप्तमी" २।१।३९ इति योगविभागात्समासः, "तत्पुरुषे कृति बहुलम्" ६।३।१३ इति पक्षे सप्तम्या अलुक्॥
बाल-मनोरमा
भस्त्रादिभ्यः ष्ठन् १५४५, ४।४।१६

भस्त्रादिभ्यः ष्ठन्। "ष्ठ"निति छेदः। हरतीत्यर्थे तृतीयान्तेभ्यो भस्त्रादिभ्यः ष्ठन् स्यादित्यर्थः। षित्त्वादिति। "ङी"षिति शेषः।

तत्त्व-बोधिनी
भस्त्रादिभ्यः ष्ठन् ११९९, ४।४।१६

भस्त्रदिभ्यः ष्ठन्। भस्त्रा चर्मबिकारः।"शीर्षेभार"शब्दोऽत्र पट()ते। निपातनाच्छीर्षभावः। सप्तमीसमाश्च, तत्पुरुषे कृती"ति वा अलुक्। पक्षे "शीर्षभारः"।