पूर्वम्: ४।४।१७
अनन्तरम्: ४।४।१९
 
सूत्रम्
अण् कुटिलिकायाः॥ ४।४।१८
काशिका-वृत्तिः
अण् कुटिलिकायाः ४।४।१८

हरति इत्येव। कुटिलिकाशब्दात् तृतीयासमर्थादण् प्रत्ययो ह्बवति हरति इत्येतस्मिन्नर्थे। कुटिलिकाया हरति मृगो व्याधं कौटिलिको मृगः। कुटिलिकया हरत्यङ्गारात् कौटिलिकः कर्मारः। कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्च उच्यते।
न्यासः
अण् कुटिलिकायाः। , ४।४।१८

बाल-मनोरमा
अण् कुटिलिकायाः १५४७, ४।४।१८

अण् कुटिलिकायाः। हरतीत्यर्थे तृतीयान्तात्कुटिलिकाशब्दादण् स्यादित्यर्थः। कर्मारो लोहकारः, तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः।