पूर्वम्: ४।४।२१
अनन्तरम्: ४।४।२३
 
सूत्रम्
संसृष्टे॥ ४।४।२२
काशिका-वृत्तिः
संसृष्टे ४।४।२२

तेन इत्येव। तृतीयासमर्थात् संसृष्टे इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। संसृष्टम् एकीभूतम् अभिन्नम् इत्यर्थः। दध्ना संसृष्टं दाधिकम्। मारिचिकम्। शार्ङ्गवेरिकम्। पैप्पलिकम्।
लघु-सिद्धान्त-कौमुदी
संसृष्टे ११२४, ४।४।२२

दध्ना संसृष्टं दाधिकम्॥
बाल-मनोरमा
संसृष्टे १५५१, ४।४।२२

संसृष्टे। संसृष्टमित्यर्थे तृतीयान्ताट्ठागित्यर्थः।