पूर्वम्: ४।४।२३
अनन्तरम्: ४।४।२५
 
सूत्रम्
लवणाल्लुक्॥ ४।४।२४
काशिका-वृत्तिः
लवणाल् लुक् ४।४।२४

संसृष्ते ४।३।२२ इत्यनेन उत्पन्नस्य ठको लवणशब्दाल् लुक् भवति। लवणः सूपः। लवणं शाकम्। लवणा यवागूः। द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची।
न्यासः
लवणाल्लुक्। , ४।४।२४

"द्रव्यवाची" इत्यादि। लवणशब्दोऽयमस्त्येव गुणवचनो यो रसविशेषे वत्र्तते, रसस्य गुणत्वात्। अस्ति द्रव्यवचनः, यथा--पञ्च लवणानीति। तत्र यो गुणवचनः स लुकं न प्रयोजनयति। गुणैर्हि यद्यपि द्रव्यं न संसृज्यते, तथापि गुणशब्दाः "सोऽयम्" इत्यभेदेन सम्बन्धाद्द्रव्ये वत्र्तन्ते, यथा-- शुक्लः पटः, {क्षारम्---मुद्रितः पाठः} क्षौरम्, अम्लं दधीति; तथा लवणशब्दोऽपि वर्तिष्यते, ततः किं लुका? अवश्यं तदेवं विज्ञायम्, अन्यथा हि मधुरादिभ्योऽपि लुग्वक्तव्यः स्यात्। द्रव्यशब्दास्त्वन्यत्र सोऽयमित्यभेदसमर्थनान्न वत्र्तन्ते। तस्माद्द्रव्यवाची लवणशब्दो लुकं प्रयोजयति॥
बाल-मनोरमा
लवणाल्लुक् १५५३, ४।४।२४

लवणाल्लुक्। "पूर्वसूत्रविहितस्ये"ति शेषः।