पूर्वम्: ४।४।२
अनन्तरम्: ४।४।४
 
सूत्रम्
संस्कृतम्॥ ४।४।३
काशिका-वृत्तिः
संस्कृतम् ४।४।३

तेन इति तृतीयासमर्थात् संस्कृतम् इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतम् दाधिकम्। शार्ङ्गवेरिकम्। मारीचिकम्। योगविभाग उत्तरार्थः।
लघु-सिद्धान्त-कौमुदी
संस्कृतम् ११२१, ४।४।३

दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥
न्यासः
संस्कृतम्। , ४।४।३

योगविभाग उत्तरार्थः-- "कुलत्थकोपधादण्" ४।४।४ इत्ययमपवादः संस्कृत एव यथा स्यात्, "दीव्यति" इत्यादौ मा भूदित्येवमर्थो योगविभागः॥
बाल-मनोरमा
संस्कृतम् १५३०, ४।४।३

संस्कृतम्। तेनेत्येव संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः। "सस्कृतं भक्षाः" इत्यत्र तु सप्तम्यन्तादणादि विधिः। मारीचिकमिति। मरीचिभिः संस्कृतमित्यर्थः।

तत्त्व-बोधिनी
संस्कृतम् ११९१, ४।४।३

संस्कृतम्। योग विभाग उत्तरार्थःष। बाहुकेति। सूत्रे षकारः सांहितिको, न त्वनुबन्ध इति न ङीष्। तथा च "आकर्षात्पर्पादेः" इत्यादि श्र्लोकवार्तिकं षित्त्वविवेचनाय प्रकरणान्ते पठिष्यति। निकषोपल इति। सुवर्णपरीक्षार्थः।