पूर्वम्: ४।४।३५
अनन्तरम्: ४।४।३७
 
सूत्रम्
परिपन्थं च तिष्ठति॥ ४।४।३६
काशिका-वृत्तिः
परिपन्थं च तिष्ठति ४।४।३६

परिपन्थशब्दात् तदिति द्वितीयासमर्थात् तिष्ठति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। परिपन्थं तिष्ठति पारिपन्थिकश्चौरः। चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति। परिपन्थं हन्ति पारिपन्थिकः। समर्थविभक्तिप्रकरणे पुनर् द्वितियोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्। परिपथशब्दपर्यायः परिपन्थशब्दो ऽस्ति इति ज्ञापयति। स विषयान्तरे ऽपि प्रयोक्तव्यः।
न्यासः
परिपन्थञ्च तिष्ठति। , ४।४।३६

यथा परिमुखञ्चेति परिमुखशब्दस्याव्ययीभावत्वं तत्पुरुषत्वञ्च, तथेहापि परिपन्थशब्दस्य तद्द्वयं वेदितव्यम्। "तदिति द्वितीयासमर्थात्" इति। ननु च तिष्ठतिरयमकर्मकः तत्कथं द्वितीयया सह सम्बन्धः? नैष दोषः; अकर्मणामपि हि {कालभावाध्वनां मुद्रितपाठः} कालभावाध्नः कर्मसंज्ञां प्रतिपद्यन्ते। तथा चोक्तम्-- "कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम्" (वा।१।३।५१) इति। "पारिपन्थिकश्चौरः" इत्यव्ययीभावः। चौरो यः पन्थानं वर्णयित्वा तिष्ठति स पारिपन्थिकशब्देनोच्यते। तत्पुरुषपक्षे तु यश्चौरः पथो व्याप्य तिष्ठति स परिपन्थिक उच्यते। "चकारः" इत्यादि। तिष्ठति चेत्यत्र प्रत्ययार्थसमनन्तरमेव चकारो द्रष्टव्यः, तेन समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति। अथ प्रकृतेरेव समुच्चयः कस्मान्न विज्ञायते? कर्मत्वानुपपत्तेः। तत्र हि द्वितीया समर्थविभक्तिरनुवत्र्तते, तिष्ठतेश्चाकर्मकत्वात् प्रकृताया मत्स्यादेः प्कृतेः कर्मभावो नोपपद्यते। कालभावाध्वनामेव ह्रकर्मकाणां कर्मसंज्ञेष्यते, न मत्स्यादीनाम्। लौकिकवाक्यप्रदर्शनार्थं तदेतद्()द्वितीयोच्चारणं करोतीत्याह-- "{परिपथशब्दपर्यायः---काशिका}परिपथपर्यायः" इति। किमेतस्य ज्ञापने प्रयोजनमित्याह-- "स विषयान्तरे" इत्यादि। असति ह्रस्मिन् ज्ञापने ठक्प्रत्ययसन्नियोगेन प्रकृतिर्निर्दिश्यमाना प्रत्ययाभावेन प्रसज्यते। ज्ञापने तु सति यत्रापि प्रत्ययो न भवति तत्रापि प्रयोग उपपद्यते॥
बाल-मनोरमा
परिपन्थं च तिष्ठति १५६५, ४।४।३६

परिपन्थं च तिष्ठति। अस्मादिति। परिपन्थशब्दादित्यर्थः। चकाराद्धन्तीत्यनुकृष्यते। तदाह--तिष्ठति हन्ति चेति। पन्थानं वर्जयित्वेति। एतेन "अपपरी वर्जने" इति परेः कर्मप्रवचनीयत्वे "पञ्चम्यपाङ्परिभि"रिति पञ्चम्याम् "अपपरिबहिरञ्चवः पञ्चम्ये"ति अव्ययीभावसमासः सुचितः। व्याप्त वेति। एतेन सर्वतःशब्दपर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम्। अव्ययीभावः, प्रादिसमासो वेत्यपि बोध्यम्। उभयथाऽपि क्रियाविशेषणत्वाद्द्वितीयान्तत्वम्। इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः इदमेवाभिप्रेत्य विग्रहं दर्शयति--परिपन्थं तिष्ठतीति।

तत्त्व-बोधिनी
परिपन्थं च तिष्ठति १२११, ४।४।३६

परिपन्थं च। परिमुखवदयमव्ययीभावस्तत्पुरुषो वा। क्रियाविषयत्वात्तिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वमस्त्येवेत्याह---द्वितीयान्तादिति। चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोतीत्याह---तिष्ठति हन्ति चेति।