पूर्वम्: ४।४।३४
अनन्तरम्: ४।४।३६
 
सूत्रम्
पक्षिमत्स्यमृगान् हन्ति॥ ४।४।३५
काशिका-वृत्तिः
पक्षिमत्स्यमृगान् हन्ति ४।४।३५

तदित्येव। पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्ति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। स्वरूपस्य पर्यायाणां तद्विशेषाणाम् च ग्रहणम् इह इस्यते। पक्षिणो हन्ति पाक्षिकः। शाकुनिकः। मायूरिकः। तैत्तिरिकः। मत्स्य मात्स्यिकः। मैनिकः। शाफरिकः। शाकुलिकः। मृग मार्गिकः। हारिणिकः। सौकरिकः। सारङ्गिकः।
न्यासः
पक्षिमत्स्यमृगान्हन्ति। , ४।४।३५

"स्वरूपस्य पर्यायाणाञ्च तद्विशेषणानाञ्च ग्रहमिष्यते" इति। कथं पुनरिष्यमाणमपि पर्यायादीनां ग्रहणं लभ्यते? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्दे()शे स्वरूपस्य ग्रहणं भवति, नार्थप्रधान इति प्रतिपादितमेतत् प्राक्। यदि तर्हि पर्यायाणामपि ग्रहणम्, अजिहृआन् हन्त्यनिमिषान् हन्तीत्यत्रापि प्राप्नोति? नैष दोषः इह द्वितीयासमर्थविभक्तौ लब्धायां पुनर्दितीयासमर्थविभक्तिनिर्देशो लौकिकवाक्यप्रदर्शनार्थः। असय् परिग्रहः-- यत्र लौकिकवाक्यव्यवहारस्तत्र प्रत्ययो भवति नान्यत्रेत्यस्यार्थस्य सूचनार्थम्, तेनाजिहृआन् हन्तीत्यादौ प्रत्ययो न भवति। अजिहृआन् हन्त्यनिमिषान् हन्तीत्यस्यार्थस्य विवक्षायामाजिहिऋकः, आनिमिषिक इति लोके न व्यवहारोऽस्ति। तत्र पक्षिषु "पाक्षिकःर" इतचि स्वरूपस्योदाहरणम्। "शाकुनिकः" इति पर्यायस्य। "मायूरिकः, तैत्तिरिकः" इति। विशेषस्य। मत्स्येषु "मात्स्यिकःर" इति स्वरूपस्य। "मैनिकःर" इति पर्यायस्य। "शाफरिकःर, शाकुलिकः"इति विशेषस्य। मृगेषु "मार्गिकः" इति स्वरूपस्य। "हारिणिकःर" इति पर्यायस्य। "सौकरिकः, सारङ्गिकः" इति विशेषस्य॥
बाल-मनोरमा
पक्षिमत्स्यमृगान्हन्ति १५६४, ४।४।३५

पाक्षिमत्स्यमृगान्हन्ति। अस्मिन्नर्थे पक्ष्यादिशब्देभ्यो द्वितीयान्ताट्ठगित्यर्थः।

स्वरूपस्येति। पक्षिमत्स्यमृगशब्दैस्तत्तत्स्वरूपाणां, तत्तत्पर्यायाणां, तद्विशेषवाचिनां च ग्रहणमित्यर्थः, "स्वं रूप"मिति सूत्रभाष्ये तथोक्तेरिति भावः। मीनस्यैवेति। मत्स्यपर्यायेषु मीनस्यैव ग्रहणं, न त्वनिमिषादिशब्दानामित्यर्थः। इदमपि "स्वं रूप"मित्यत्र भाष्ये स्थितम्। पाक्षिक इति --स्वरूपस्योदाहरणम्। शाकुनिक इति--पक्षिपर्यायस्य। मायूरिक इति--पक्षिविशेषस्य। तथा मात्स्यिकः, मैनिकः, शाकलिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम्। तथा मार्गिकः, हारिणिकः, सारङ्गिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम्।