पूर्वम्: ४।४।४०
अनन्तरम्: ४।४।४२
 
सूत्रम्
धर्मं चरति॥ ४।४।४१
काशिका-वृत्तिः
धर्मं चरति ४।४।४१

धर्मशब्दात् तदिति द्वितीयासमर्थाच् चरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिरासेबायां नानुष्ठानमात्रे। धर्मं चरति धार्मिकः। अधर्माच् च इति वक्तव्यम्। आधर्मिकः।
लघु-सिद्धान्त-कौमुदी
धर्मं चरति ११२८, ४।४।४१

धार्मिकः (अधर्माच्चेति वक्तव्यम्)। आधर्मिकः॥
न्यासः
धर्मञ्चरति। , ४।४।४१

"चरतिरासेवायाम्" इति। आसेवा = पौनःपुन्यम्। "अधर्माच्च वक्तव्यम्" इति। अधर्मशब्दाच्चरतीत्येतस्मिन्नर्थे ठग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- पूर्वसूत्रादिह चकारऽनुवत्र्तते, स चानुक्तसमुच्चयार्थो वेदितव्यः, तेनाधर्मादपि भविष्यति॥
बाल-मनोरमा
धर्मं चरति १५७०, ४।४।४१

धर्मं चरति। चरतीत्यर्थे द्वितीयान्ताद्धर्मशब्दाट्ठगित्यर्थः।

अधर्माच्चेतीति। "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती"ति तदन्ताऽग्रहणादप्राप्ते आरम्भः।

तत्त्व-बोधिनी
धर्म चरति १२१४, ४।४।४१

धर्म चरति। चरतिरिहाऽ‌ऽसेवायां, न त्वनुष्ठानमात्रे। तेन दैववशाद्धर्मे प्रवृत्तो दुर्वृत्तो धार्मिक इति नोच्यते। आसेवा हि स्वारसिकि प्रवृत्तिः। एवं दैववशादधर्मे प्रवृत्तो यः सद्वृत्तः स आधर्मिक इति नोच्यते।