पूर्वम्: ४।४।५१
अनन्तरम्: ४।४।५३
 
सूत्रम्
लवणाट्ठञ्॥ ४।४।५२
काशिका-वृत्तिः
लवणाट् ठञ् ४।४।५२

लवणशब्दाट् ठञ् प्रत्ययो भवति तदस्य पण्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। स्वरे विशेषः। लवणं पण्यम् अस्य लावणिकः।
न्यासः
लवणाठ्ठञ्। , ४।४।५२

बाल-मनोरमा
लवणाठ्ठञ् १५८१, ४।४।५२

विक्रेतव्यं द्रव्यं-पण्यम्। लवणाट्ठञ्। "तदस्य पण्य"मित्येव। लावणिक इति। लवणमस्य पण्यमित्यर्थः।