पूर्वम्: ४।४।७८
अनन्तरम्: ४।४।८०
 
सूत्रम्
एकधुराल्लुक् च॥ ४।४।७९
काशिका-वृत्तिः
एकधुराल् लुक् च ४।४।७९

तद् वहति इत्येव। एकधुराशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति, तस्य च लुग् भवति। वचनसमार्थ्यात् पक्षे लुग् विधीयते। एकधुराम् वहति एकधुरीणः, एकधुरः।
न्यासः
एकधुराल्लुक् च। , ४।४।७९

"एकधुरात्" इत्ययमपि शब्दरूपापेक्षया निर्देशः। अर्थापेक्षया हि परवल्लिङ्गता भवति। अत्रापि पूर्ववत् समाससमासान्तौ वेदितव्यौ। वचनसामथ्र्यात्पक्षे लुग्विधीयते। यदि हि नित्यो लुक् स्यात्, खस्य विधानमनर्थकं स्यात्, यत एव हि लुकं विदध्यात्।ननु चैकधुरशब्दात् केनचिद्विहितो न स्यात्, तस्य कथं लुक् शक्यते विज्ञातुम्? लुग्वचनादेव यतोऽपि विधिरनुगम्यत इत्यदोषः॥
बाल-मनोरमा
एकधुराल्लुक्च १६११, ४।४।७९

एकधुराल्लुक् च। एकधुराशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे खः स्यात्। तस्य पक्षे लुगित्यर्थः। एकधुरीणः। एकधुर इति। एकधुरां वहतीत्यर्थः।

तत्त्व-बोधिनी
न भकुर्च्छुराम् १२३८, ४।४।७९

न भ। उपधाया इति। "उपधायां चे"ति पूर्वसूत्रादेतल्लभ्यत इति भावः। उपधायाः किम्()। प्रतिदीव्नः। इह नान्तस्य भत्वेऽपीकारस्याऽनुपात्वान्निषेधो न प्रवर्तते।

तत्त्व-बोधिनी
एकधुराल्लुक्च १२४०, ४।४।७९

एकधुराल्लुक् च। चात्खः। एवं च प्राकरणिकस्य यतो लुक्, खस्य तु विधानसामथ्र्याच्छ्रवणमिति फलितं, तदाह---एकधुरीण इत्यादि।