पूर्वम्: ४।४।८५
अनन्तरम्: ४।४।८७
 
सूत्रम्
वशं गतः॥ ४।४।८६
काशिका-वृत्तिः
वशं गतः ४।४।८६

वशशब्दात् तदिति द्वितीयासमर्थाद् गतः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। वशं गतः वश्यः। कामप्राप्तो विधेयः इत्यर्थः।
न्यासः
वश गतः। , ४।४।८६

वशः = कामः, इच्छा। वसेर्धातोरत एव निपातनादप्रत्ययः। द्वितीयासमर्थविभक्तौ प्रकृतायां वशमिति द्वितीयानिर्देश इष्टे विषये द्वितीयान्ताद्यथा स्यात्, अनिष्टान्मा भूत्। तेनेहैव भवति-- वशं गतः, इच्छाप्राप्तः, विधेय इत्यत्रैव भवति॥
बाल-मनोरमा
वशं गतः १६१८, ४।४।८६

वशंगतः। वशशब्दाद्द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः। वश्य इति। वशं गत इति विग्रहः। "वश कान्तौ"। कान्तिरिच्छा। वशनं वशः। "वशिरण्योरुपसङ्ख्यान"मित्यप्। वशम्िच्छां, गतः=प्राप्तः। इच्छाधीन इत्यर्थः। वशाधातुश्छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः। सर्वस्यापि स्वेच्छानुसारित्वादाह--परेच्छानुसारीति।

तत्त्व-बोधिनी
वशं गतः १२४६, ४।४।८६

वशं गतः। वशनं वशः---इच्छा। "वशिरण्योरुरसङ्ख्यान"मित्यप्।