पूर्वम्: ४।४।८७
अनन्तरम्: ४।४।८९
 
सूत्रम्
मूलमस्याबर्हि॥ ४।४।८८
काशिका-वृत्तिः
मूलम् अस्य आवर्हि ४।४।८८

मुलशब्दात् प्रथमासमर्थादावर्हि इत्येवम् उपाधिकादस्य इति षष्ठ्यर्थे यत् प्रत्ययो भवति। मूलम् एषाम् आवर्हि मूल्या माषाः। मूल्या मुद्गाः। वृहू उद्यमने। येषां मूलम् आवृह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पन्नाः। मूलोत्पाटनेन विना सङ्ग्रहीतुं न शक्यन्ते इत्यर्थः।
न्यासः
मूलमस्यावर्हि। , ४।४।८८

आवर्हणमावर्हः, उत्पादनमित्यर्थः। वृहेराङपूर्वाद्भावे घञ्, आवर्होऽस्यास्तीत्यावर्हीति। द्वितीयाविभक्तिरिह नास्ति। न च प्रथमाद्वितीयाभ्यामन्यस्यां विभक्तौ मूलमित्येतद्रूपमुपपद्यते। तस्मात् प्रथमान्तमेवैतत्। निर्देशादेव प्रथमा समर्थविभक्तिरुपपद्यते इति मत्वाह-- "मूलशब्दात् प्रथमासमर्थात्" इति॥
बाल-मनोरमा
मूलमस्याऽ‌ऽबर्हि १६२०, ४।४।८८

मूलमस्याबर्हि। आबर्हणमिति। उत्पाटनमित्यर्थः। उपसर्गवशात् "बृहूउद्यमने" इति धातोरुत्पाठने वृत्तिः। मूल्या मुद्गा इति। मूलत उत्पाटनीया इत्यर्थः।

तत्त्व-बोधिनी
मूलमस्याऽ‌ऽबर्हि १२४७, ४।४।८८

मूलमस्याबर्हि। प्रथमान्तादाबर्हि इत्युपाधिकान्मूलशब्दादस्येति षष्ठ()र्थे यत्स्यात्। आवर्ह इति। "वृहू उद्यमने"दन्त्योष्ठ()आदिरयम्, न तु परवर्गादिः, "उद्वृह रक्षः सहमूलनिन्द्रे"त्यादिप्रयोगदर्शनात्। मूल्या मुद्गा इति। मूलोत्पटनं विना सङ्ग्रहीतुमशक्याः, मध्यतो लूयमानेषु कोशस्था अपि सयस्यामवस्थायां पतेयुस्तमवस्थां प्राप्ताः। सुष्ठु शुष्का इति यावत्। यप्रत्यय इति। तेनधेनुष्याशब्दोऽन्त उदात्तः। यतु तु तित्स्वरः स्यादिति भावः।