पूर्वम्: ५।१।१०४
अनन्तरम्: ५।१।१०६
 
सूत्रम्
छन्दसि घस्॥ ५।१।१०५
काशिका-वृत्तिः
छन्दसि घस् ५।१।१०६

ऋतुशब्दाच् छन्दसि विषये घस् प्रत्ययो भवति तदस्य प्राप्तम् इत्यस्मिन् विसये। अणो ऽपवादः। अयं ते योनिरृत्वियः।
न्यासः
छन्दसि घस्?। , ५।१।१०५

घसः सकारः "सिति च" १।४।१६ इति पदसंज्ञार्थः। तेन पदत्वेन भत्वे निरस्ते "ऋत्विय" इति। अत्र "ओर्गुणः" ६।४।१४६ इति गुणो न भवति॥