पूर्वम्: ५।१।११५
अनन्तरम्: ५।१।११७
 
सूत्रम्
तदर्हम्॥ ५।१।११६
काशिका-वृत्तिः
तदर्हम् ५।१।११७

ततिति द्वितीयासमर्थातर्हम् इत्येतस्मिन्नर्थे वतिः प्रत्ययो भवति। राजानम् अर्हति राजवत् पालनम्। ब्राह्मणवतृषिवत्। क्षत्रियवत्।
न्यासः
तदर्हम्?। , ५।१।११६

अरहतीत्यर्थः। क्रियाग्रहणमिहानुवत्र्तते, ततोऽस्यामेवर्हणक्रियायां कर्तृभूतायां प्रत्ययो विधीयत इति। यत्रासौ प्रत्ययार्थत्वेन विवक्ष्यते, तत्र वाक्यमेव भवति--ब्राआहृणमर्हतीति॥
बाल-मनोरमा
तदर्हम् १७५७, ५।१।११६

तदर्हम्। अर्हतीत्यर्हम्। पचाद्यच्। तदिति कर्मणि द्वितीयान्तम्, लब्धुं योग्यं भवतीत्यर्थात्। कृद्योगलक्षणषष्ठ()भावस्तु आर्षः। वतिरित्यनुवर्तते। द्वितीयान्तादर्हतीत्यर्थे वतिः स्यादित्यर्थः। विधिमर्हतीति। विधिं लब्धुं योग्यं भवतीत्यर्थः। विधिबत्पूज्यत इति। "हरि"रिति शेषः। विंधिं लब्धु योग्यं हरिपूजनमित्यर्थः। विहितं प्रकारमनतिक्रान्तमिति यावत्। मण्डूकप्लुत्येति। पूर्वसूत्रे अननुवृत्तेरिति भावः।

तत्त्व-बोधिनी
तदर्हम् १३५४, ५।१।११६

तदर्हम्। अर्हतीत्यहम्। पचाद्यच्। यद्यपि कृद्योगे कर्मणि षष्ठ()आ भवितव्यम्, तथापि अत्र सौत्रो विभक्तिव्यत्यय इत्येके। "कर्तृकर्मणो"रिति षष्ठ()आ अनित्यत्वे ज्ञापकमिदम्। तेन च "धायैरामोदमुत्तम"मिति भट्टिप्रयोगः सङ्गच्छत इति तु कारकेष्ववोटाम। द्वितीयान्तादेव प्रत्यय इति स्फुटीकर्तुं तिङन्तेन वगृह्णाति----विधिमर्हतीति। कथं तर्हि "ततो यथावद्विहिताध्वराये "कि असत्त्वार्थकस्य कर्मत्वाऽसंभवेन द्वितीयान्तत्वाऽभावादिति चेत्। अत्राहुः----यथाशब्दो वृत्तिविषये सत्त्वार्थकः, "तथात्वं" "यथात्व"मित्यादिषु त्वतलादिदर्शनात्। अन्यथा षष्ठ()पि नास्तीति त्वतलौ न स्याताम्। तथा च द्वितीयान्ताद्यशब्दादर्हार्थे वतिः। योग्यतामर्हतीति विधानमित्यर्थाक्रियायोगोऽपि सुलभ इति।