पूर्वम्: ५।१।१२१
अनन्तरम्: ५।१।१२३
 
सूत्रम्
वर्णदृढादिभ्यः ष्यञ् च॥ ५।१।१२२
काशिका-वृत्तिः
वर्णदृढाऽदिभ्यः ष्यञ् च ५।१।१२३

वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढाऽदिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारातिमनिच् च, तस्य भावः इत्येतस्मिन् विषये। शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता। कार्ष्ण्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता। दृढादिभ्यः दार्ढ्यम्, द्रढिमा, दृढत्वम्, दृढता। षकारो ङीषर्थः। औचिती। याथाकामी। दृढ। परिवृढ। भृश। कृश। चक्र। आम्र। लवण। ताम्र। अम्ल। शीत। उष्ण। जड। बधिर। पण्डित। मधुर। मूर्ख। मूक। वेर्यातलाभमतिमनः शारदानाम्। समो मतिमनसोः।
लघु-सिद्धान्त-कौमुदी
वर्णदृढादिभ्यः ष्यञ्च ११६२, ५।१।१२२

चादिमनिच्। शौक्ल्यम्। शुक्लिमा। दार्ढ्यम्। द्रढिमा॥
न्यासः
वर्णदृढादिभ्यः ष्यञ्च। , ५।१।१२२

बहुवचनं प्रतेयकमभिसम्बध्यते--वर्णेभ्यो दृढादिभ्यश्चेति; तेन बहुवचननिर्देशाद्वर्णशब्देन वर्णवाचिनां ग्रहणमिति विज्ञायते, न स्वरूपग्रहणे तु वर्णशब्दमपि दृढादिषु एवाधीयीत। वर्णशब्दश्च गुणविशेषस्य वाचकः; न ब्राआहृणादीनाम्()। कुतः? दृढादिभिर्गुणवचनैः साहचर्यात्()। अत एवाह-दृढादिभिः साहचर्याद्रूपविशेषा एव शुक्लादयः प्रत्ययमुत्पादयन्ति, न तु स्वरूपशब्दाः, नापि तत्पर्यायाः। कथम्()? दृढादयो हि गुणा उपसर्जनं द्रव्ये वत्र्तन्ते। तत्साहचर्याद्वर्णशब्दा अपि तत्सदृसा एव गृह्रन्ते। न वर्णश्बदस्य तत्पर्यायाणां वा तादृशी वृत्तिरस्ति; गुणमात्रवचनत्वात्()। वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमिमनिजर्थम्()। यद्येवम्, ष्यञ्ग्रहणनर्थकम्(), इमनिजेव विधेयः, स च विभाषयैव प्रकृतः? तदुच्यते; अवस्यं ष्यञ्ग्रहणमुत्तरार्थ कत्र्तव्यम्। तत्र वा क्रियत इह वेति नास्ति विशेषः। "शुक्लिमा" इति। पूर्ववट्टिलोपः। "द्रढिमा" इति। पूर्वदृकारस्य रभावः। "औचितो, यथाकामी" इति। "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीष्()। "हलस्तद्धितस्य" ६।४।१५० इति यलोपः। "वेयतिलाभमतिमनःशारदानाम्()" इति पठ()ते। तस्यायमर्थः--विशब्दादुत्तरेषां यातादीनां प्रत्ययाभवन्तीति। वियातत्वम्, वियातता, वियातिमा, वैयात्यम्()। विलाभता, विलाभत्वम्(), वैलाभ्यम्(), विलाभिमा। विमतित्वम्(), विमतिता, वैमत्यम्, विमतिमा, "इगन्तात्()" ५।१।१३० इत्यण्(), वैमतम्()। विमनसत्वम्(), विमनस्ता, विमनिमा, वैमनस्याम्()। विशारदत्वम्(), विशारदता, वैशारद्यम्(), विशारदिमा। "समो मतिमनसोः" इति। सम उत्तरयोर्मतिमनसोः प्रत्ययो भवति। संमतिता, संमतित्वम्(), संमतिमा, सांमत्यम्()। संमनस्त्वम्()। संमनस्ता, संमनिमा, सांमनस्यम्()॥
बाल-मनोरमा
वर्णदृढादिभ्यः ष्यञ्च १७६४, ५।१।१२२

वर्णदृढादिभ्यः। षष्ठ()न्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ्च स्यादित्यर्थः। गुणवचनत्वादेव ष्यञि सिद्धे इमनिच्समुच्चयार्थं वचनम्।

"पृथु मृदुं भृशं चैव कृशं च दृढमेव च। परिपूर्वं वृढं चैव षडेतान्रविधौ स्मरेत्" इति वार्तिकमर्थतः सङ्गृह्णाति--पृथुमृदुभृशेत्यादि। तेन कृतयतीत्यादाविष्ठवत्त्वेऽपि रभावो न। द्रढिमेति। दृढशब्दादिमनिचि ऋकारस्य रः। भ्रशिमा क्रशिमा द्रढिमा परिब्राढिमा। ननु वर्णदृढादीनां ष्यञन्तानां लोकतो नपुंसकत्वात्ष्यञः षित्त्वस्य किं प्रयोजनमित्यत आह--षो ङीषर्थ इति। औचितीति। उचितशब्दाद्ब्राआहृणादित्वात्ष्यञि लोकात्स्त्रीत्वम्। शित्त्वान्ङीषि "हलस्तद्धितस्ये"ति यलोपः। उचितस्तु न दृढादिः, तद्गणे अदर्शनात्, इनिच्प्रसङ्गाच्च। अस्यैव ष्यञ उत्तरसूत्रे अनुवृत्तेरिहैव तस्य षित्त्वप्रयोजनकथनमिति बोध्यम्। याथाकामीति। काममनतिक्रम्य यथाकामम्। ततः स्वार्थे चतुर्वर्णादित्वात्ष्यञि लोकात्स्त्रीत्वे षित्त्वान्ङीष्।

तत्त्व-बोधिनी
वर्णदृढादिभ्यः ष्यञ्च १३६०, ५।१।१२२

वर्णदृढदिभ्यः। गुणवचनत्वादेव सिद्धे इमनिजर्थं वचनम्। "पृथुमृदुभृसे"ति परिगणनादिह रभावो न भवति----कृतमाचष्टे कृतयति। णाविष्ठवद्भावः। औचितीति। ब्राआहृणादेराकृतिगणत्वात् ष्यञ्। "हलसतद्धितस्ये"ति यलोपः। एवं याथाकामी। दृढ, वृढ, परिवृढ। भृश, कृश, इत्यादि। अत्र द्वे गणसूत्रे---"वेर्यातलाभमतिमनःशारदानाम्"। विशब्दादुत्तरे ये यातादयः पञ्च तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्वर्थः। वियातत्वं। वियातता। वियातिमा। वैयात्यम्। विलाभिमा। वैलाब्यम्। विमतिमा। वैमत्यम्। इगन्तत्वादणपि----वैमतम्। विमनिमा। वैमनस्यम्। विशारदिमा। वैशारद्यम्। त्वतलोः समावेशेन---विलाभत्वम्। बिलाभतेत्यादीन्यप्यूह्रानि। "समो मतिमनसोः"। समः परे ये मति मनसी तदन्तयोः समासयोरनन्तरः ष्यञ् भवतीत्यर्थः। संमतित्वम्। संमतिता। संमतिमा। सांमात्यम्। इगन्तत्वादणि---सांमतम्। संमनस्त्वम्। संमनस्ता। संमनिमा। सांमनस्यम्।