पूर्वम्: ५।१।१२४
अनन्तरम्: ५।१।१२६
 
सूत्रम्
सख्युर्यः॥ ५।१।१२५
काशिका-वृत्तिः
सख्युर् यः ५।१।१२६

सखिशब्दात् यः प्रत्ययो भवति भावकर्मणोरर्थयोः। सख्युः भावः कर्म वा सख्यम्। दूतवणिग्भ्यां च इति वक्तव्यम्। दूत्यम्। वणिज्यम्। कथं वाणिज्यम्? ब्राह्मणादित्वात्।
लघु-सिद्धान्त-कौमुदी
सख्युर्यः ११६४, ५।१।१२५

सख्युर्भावः कर्म वा सख्यम्॥
न्यासः
सख्युर्यः। , ५।१।१२५

"दूतवणिग्भ्याञ्च" इत्यादि। दूतवणिग्भ्यां यो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()-पूर्वसूत्रादिह चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः--"दूतवणिग्भ्याञ्च" इत्यादि। दूतवणिग्भ्यामपि भवति॥
बाल-मनोरमा
सख्युर्यः १७६८, ५।१।१२५

सख्युर्यः। सखिशब्दात्षष्ठ()न्ताद्भावकर्मणोर्यः स्यादिति वक्तव्यमित्यर्थः। नास्त्येवेति। वार्तिकत्वे तस्य भाष्ये पाठावश्यकत्वात्, पाठस्य चाऽभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः। तर्हि दूतवणिग्भ्यां भावकर्मणोः कथं यत्प्रत्ययः, किंतु ष्यञेवेत्याह--ब्राहृणादित्वाद्वाणिज्यमपीति। अपिना दौत्सयसङ्ग्रहः।