पूर्वम्: ५।१।२०
अनन्तरम्: ५।१।२२
 
सूत्रम्
शताच्च ठन्यतावशते॥ ५।१।२१
काशिका-वृत्तिः
शताच् च ठन्यतावशते ५।१।२१

आर्हातित्येव। शतशब्दात् ठन्यतौ प्रत्ययौ भवतः अशते ऽधिधेये आर्हीयेष्वर्थेषु। कनो ऽपवादः। शतेन क्रीतं शतिकम्, शत्यम्। अशते इति किम्? शतं परिमाणम् अस्य शतकं निदानम्। प्रत्ययार्थो ऽत्र सङ्घः। शतम् एव वस्तुतः प्रकृत्यर्थान् न भिद्यते। इह तु न भवति, शतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतम् इति। वाक्येन ह्यत्र प्रत्ययार्थस्य तत्त्वं गम्यते, न श्रुत्या। तथा च उक्तम्, शतप्रतिशेधे ऽन्यशतत्वे ऽप्रतिषेधः इति। चकारो ऽसमास इत्यनुकर्षणार्थः। द्वौ च शतं च द्विशतं, द्विशतेन क्रीतं द्विशतकम्। त्रिशतकम्। प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणम् अलुकि इत्यनया इष्ट्या समासादपि प्राप्नोति।
बाल-मनोरमा
शताच्च ठन्यतावशते १६६४, ५।१।२१

शताच्च। आर्हीयेष्वर्थेषु शताट्ठन्यतौ स्तो नतु शतेऽर्थे इत्यर्थः। उत्तरसूत्रप्राप्तकनोऽपवादः। शतक इति। उत्तरसूत्रेण कन्निति भावः। नन्विह सङ्घस्यैव प्रत्ययार्थत्वात् कथम् "अशते" इति निषेध इत्यत आह--इहेति। प्रत्ययार्थः सङ्घः प्रकृत्यर्थाच्छतात्परिमाणान्न भिद्यते। गुणगुणिनोरभेद एव हि पारमार्थिकः। भेदस्तु काल्पनिक एवेति भावः। यत्र तु शतं प्रत्ययार्थः प्रकृत्यर्थाद्भिद्यते तत्र नायं निषेधः। शतेन क्रीतं शत्यं शाटकशतम्। अत्र हि निष्कशतं प्रकृत्यर्थः। सादकशतं तु प्रत्ययार्थः। एतत्सर्वं भाष्ये स्पष्टम्। असमास इत्येवेति। चकारस्य तदनुकर्षणार्थत्वादिति भावः। द्विशतेनेति। द्विगुणशतेनेत्यर्थः। द्विगुसमासे तु द्विशतशब्दस्य लुगन्ततया लुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम्।

तत्त्व-बोधिनी
शताच्च ठन्यतावशते १२८४, ५।१।२१

शताच्च। अशतेऽभिधेये आर्हीयष्वर्थेषु ठन्यतौ स्तः। उत्तरसूत्रेण प्राप्तस्य कनोऽपवादः। चकारः "असमासे" इत्यस्यानुकर्षणार्थः। द्विशतकमिति। द्वौ च शतं च तेषां समाहारे द्विशतम्। ततः कन् "प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकी"त्यनया इष्ट()आ समासादपि प्राप्नोतीति "असमासे"इत्यतस्यानयनमुचितमिति भावः।