पूर्वम्: ५।१।२४
अनन्तरम्: ५।१।२६
 
सूत्रम्
कंसाट्टिठन्॥ ५।१।२५
काशिका-वृत्तिः
कंसाट् टिठण् ५।१।२५

कंसाट् टिठन् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञो ऽपवादः। टकारो ङीबर्थः। इकार उच्चारणार्थः। नकारः स्वरार्थः। कंसिकः। कंसिकी। अर्धाच् च इति वक्तव्यम्। अर्धिकः। अर्धिकी। कार्षापणाट् टिठन् वक्तव्यः। कार्षापणिकः। कार्षापणिकी। प्रतिशब्दश्च अस्य आदेशो वा वक्तव्यः। प्रतिकः। प्रतिकी।
न्यासः
कंसाट्?टिठन्?। , ५।१।२५

"ठञोऽपवादः" इति। न ठकः, कंसशब्दस्य परिमाणवाचित्वात्()॥