पूर्वम्: ५।१।५०
अनन्तरम्: ५।१।५२
 
सूत्रम्
सम्भवत्यवहरति पचति॥ ५।१।५१
काशिका-वृत्तिः
सम्भवत्यवहरति पचति ५।१।५२

ततिति द्वितीया समर्थविभक्तिरनुवर्तते। तदिति द्वितियासमर्थात् सम्भवत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। तत्र अधेयस्य प्रमाणानतिरेकः सम्भवः। उपसंहरणम् अवहारः। विक्लेदनं पाकः। प्रस्थं सम्भवति अवहरति पचति वा प्रास्थिकः। कौडविकः। खारीकः। ननु च पाके च सम्भवो ऽस्ति? न अस्त्यत्र नियोगः। प्रस्थं पचति ब्राह्मणी प्रास्थिकी। तत्पचति इति द्रोणादण् च। द्रोणं पचति द्रौणी, द्रौणिकी।
न्यासः
सम्भवत्यवहरति पचति। , ५।१।५१

"प्रमाणानतिरेकः" इति। प्रमाणादनाधिक्यमित्यर्थः। "ननु च" इत्यादि। तथा हि--सक्थालीप्रस्थं पचति; तत्रावश्यं प्रस्थस्य सम्भवेन भवितव्यम्(); न ह्रन्यथा शक्यते पक्तुमित्यभिप्रायः। "नास्त्यत्र नियोगः" इति। व्यभिचारमाह--"प्रस्थं पचति ब्राआहृणी" इति। अत्र हि पाक एव गम्यते, न सम्भवः॥ "ठञोऽपवादः" इति। आञकादीनां परिमाणकत्वात्? पूर्वेम प्राप्तस्य॥
बाल-मनोरमा
संभवत्वहरति पचति १६९५, ५।१।५१

संभवत्यवहरति। "त"दिति द्वितीयान्तमनुवर्तते। द्वितीयान्तात्संभवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः। प्रास्थिक इति। "आर्हा"दित्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वतीयष्ठञ्। ननु "संभवती"त्यस्य उपपद्यत इत्यर्थकत्वादकर्मकत्वात्प्रस्थं संभवतीति कथं द्वितीयेत्यत आह--समावेशयतीत्यर्थ इति। उपसर्गवसादिति भावः। प्रास्थिकी ब्राआहृणीति। ठञन्तत्वान्ङीबिति भावः। अवहरतीप्येतीत्यर्थ इति। उपसर्गवशादिति भावः। प्रास्थिकी ब्राआहृणीति। ठञन्तत्वान्ङीबिति भावः। अवहरतीप्येद्व्याचष्टे--उपसंहरतीति। किंचिदूनमपि यया प्रस्थपरिमितं भवति तथा मिमीत इत्यर्थः। तत्पचतीति द्रोणादण् चेति। वार्तिकमिदम्। द्वितीयान्तोद्द्रोणशब्दात्पचतीत्यर्तेऽण्च स्यादित्यर्थः। पचतिग्रहणं सम्भवत्यवहरतिनिवृत्त्यर्थम्। चाट्ठञिति। "आर्हा"दिति ठग्विधौ परिमाणपर्युदासाट्ठगभावे प्राग्वतेष्ठञेव चकारादनुकृष्यत इति भावः। द्रौणीति। अणन्तत्वान्ङीप्। द्रौणिकीति। ठञन्तत्वान्ङीप्।

तत्त्व-बोधिनी
संभवत्यवहरति पचति १३११, ५।१।५१

संभवत्यवहरति। आधारप्रमाणादाधेयप्रमाणस्य यदनाधिक्यं तदुपसर्जनं धारणं संभवतेर्थः। तेन सकर्मकत्वात्तदिति द्वितीयान्तानुवृत्तिर्न विरुध्यते। तदाह---प्रस्थं स्वस्मिन्निति। प्रास्थिकीति। ठञन्तत्वान्ङीप्। अवहरतीत्येतव्द्याचष्टे---उपसंहरतीति।

तत्पचतीति द्रोणादण् च। तत्पचतीति। वार्तेकेऽस्मिन्पचतिग्रहणं संभवत्यवहरतीतिनिवृत्त्यर्थम्। द्रोणपरिमिते व्रीह्रादौ द्रोणशब्दो लाक्षणिकः। पक्षे ठञिति। आढकादीनां परिमाणत्वाट्ठक् नेति भावः।