पूर्वम्: ५।१।६०
अनन्तरम्: ५।१।६२
 
सूत्रम्
त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्॥ ५।१।६१
काशिका-वृत्तिः
त्रिंशच्चत्वारिंशतोर् ब्राह्मणे संज्ञायां डण् ५।१।६२

तदस्य परिमाणम् इत्येव। वर्गे इति निवृत्तम्। त्रिंशच्चत्वरिंशच्छब्दाभ्यां संज्ञायां विषये डण् प्रत्ययो भवति तदस्य परिमाणम् इत्येतस्मिन् विषये ब्राह्मणे ऽभिधेये। अभिधेयसप्तमी एषा, न विषयसप्तमी। तेन मन्त्रभाषयोरपि भवति। त्रिंशदध्यायाः परिमाणम् एषां ब्राहमणानां त्रैशानि ब्राह्मणानि। चात्वारिंशानि ब्राह्मणानि। कानिचिदेव ब्राह्मणान्युच्यन्ते।
न्यासः
तिं?रशच्चत्वारिंशतोब्र्राआहृणे संज्ञायां डण्?। , ५।१।६१

तिं()रशच्छब्दात्? "विंशतितिं()रशद्भ्याम्()" ५।१।२४ इति योगविबागेन कनि प्राप्ते चत्वारिंशच्छब्दादपि "प्राग्वतेष्ठञ्()" ५।१।१८ इति ठञि प्राप्तेऽयमारभ्यते। "अभिधेये सप्तम्येषा" इत्यादि। विषयसप्तम्यामस्यां ब्राआहृणविषयश्चेत्? प्रयोगो भवतीत्येषोऽर्थः स्यात्(), तथा चान्यत्र प्रत्ययान्तस्य प्रयोगो न स्यात्(), तस्मान्न विषयसप्तम्येषा। एतच्च संज्ञाग्रहणादेव विज्ञायते। न हि ब्राआहृणग्रहणात्? तिं()रशच्चत्वारिंशतौ डण्णन्तौ कस्यचित्? पदार्थस्य संज्ञिनौ स्तः, ब्राआहृणानां तु विद्यते॥
बाल-मनोरमा
तिं?रशच्चत्वारिंशतोब्र्राआहृणे संज्ञायां डण् १७०४, ५।१।६१

तिं()रशच्चत्वारिंशतोः। तदस्य परिमाणमित्यर्थे परिमाणिनि ब्राआहृणे वाच्ये त्रिशच्चत्वारिंशद्भ्यां डण्स्यादित्यर्थः। ब्राआहृणं=वेदेषु मन्त्रव्यतिरिक्तो भागः। त्रैंशानीति। डित्त्वात् "टेः" इति टिलोपः।

तत्त्व-बोधिनी
तिं?रशच्चत्वारिंशतोब्र्राआहृणे संज्ञायां डण् १३१७, ५।१।६१

तिं()रशच्चत्वारिंशतोः। व्यत्ययेन पञ्चम्यर्थे षष्ठीद्विवचनम्। "चत्वारिंशतो ब्राआहृणे"इति पाठे तु समाहारद्वन्द्वात्पञ्चम्येकवचनम्। इह "ब्राआहृणसंज्ञाया"मिति षष्ठीसमासेन निर्देष्टुमुचितम्। तथा हि सति "ब्राआहृणस्य चेत्संज्ञा"इतिस्फुटीभवति। अन्यथा तु यस्य कस्यचित्संज्ञायां ब्राआहृणस्थे च प्रयोगे इत्यनिष्टोऽर्थः सम्भाव्येत। ततश्च मन्त्रे भाषायां च डण्न सिध्येत्। इष्यते च सः। तस्मादिष्टानुरोधेन षष्ठ()र्थे सप्तमीति व्याख्येयम्। "ब्राआहृणेऽभिधेये"इति तु काशिकायां व्याख्यातम्। ठञादय इति। ठञ उदाहरणं तु ----प्रस्थमर्हति प्रास्थिकः,द्रौणिकः इत्याद्यूह्रम्। आदिशब्दग्राह्रस्य ठक उदाहरणमाह।