पूर्वम्: ५।१।६५
अनन्तरम्: ५।१।६७
 
सूत्रम्
छन्दसि च॥ ५।१।६६
काशिका-वृत्तिः
छन्दसि च ५।१।६७

प्रातिपदिकमात्राच् छन्दसि विषये तदर्हति इत्यस्मिन्नर्थे यत् प्रत्ययो भवति। ठञादीनाम् अपवादः। उदक्या वृत्तयः। यूप्यः पलाशः। गर्त्यो देशः।
न्यासः
छन्दसि च। , ५।१।६६

यदनुवत्र्तते, नानन्तरो यः; यत एव स्वरितत्वात्()॥