पूर्वम्: ५।१।७२
अनन्तरम्: ५।१।७४
 
सूत्रम्
योजनं गच्छति॥ ५।१।७३
काशिका-वृत्तिः
योजनं गच्छति ५।१।७४

योजनशब्दात् द्वितीयासमर्थाद् गच्छति इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। योजनं गच्छति यौजनिकः। क्रोशशतयोजनशतयोरुपसङ्ख्यानम्। क्रोशशतम् गच्छति क्रौशशतिकः। यौजनशतिकः। ततो ऽभिगमनम् अर्हति इति च क्रोशशतयोजनशतयोरुपसङ्ख्यानम्। क्रोशशतादभिगमनम् अर्हति क्रौशशतिको भिक्षुः। यौजनशतिक आचार्यः।
न्यासः
योजनं गच्छति। , ५।१।७३

"क्रोशशतयोजनशतयोरुपसंख्यानम्()" इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तथा ततोऽभिगमन-मर्हतीति चेत्यादावपि वाक्ये। तत्रेदं प्रतिपादनम्()--इह द्वितीयाधिकारे पुनरद्वितीयोच्चारणमधिकं तु कुर्वतैतत्? सूचितम्()--अन्यदप्यत्र किञ्चिदधिकं भवति। तेन सर्वमेतद्गदितं कार्यमुपपन्नं भवति॥
बाल-मनोरमा
योजनं गच्छति १७१५, ५।१।७३

योजनं गच्छति। द्वितायान्ताद्योजनशब्दाद्गच्छतीत्यर्थे ठञ्स्यादित्यर्थः।

क्रोशशतेति। आभ्यामपि द्वितीयान्ताभ्यां गच्छतीत्यर्थे ठञ उपसङ्ख्यानमित्यर्थः। क्रोशशतादिति। ल्यब्लोपे पञ्चमी। क्रोशशतमतीत्येत्यर्थः।