पूर्वम्: ५।१।७८
अनन्तरम्: ५।१।८०
 
सूत्रम्
तमधीष्टो भृतो भूतो भावी॥ ५।१।७९
काशिका-वृत्तिः
तम् अधीष्टो भृतो भूतो भावी ५।१।८०

तम् इति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकातधीष्टो भृतो भूतो भावी वा इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अधीष्टः सत्कृत्य व्यापादितः। भृतः वेतनेन क्रीतः। भूतः स्वसत्तया व्याप्तकालः। भावी तादृश एवानागतः। कालाध्वनोरत्यन्तसंयोगे २।३।५ इति द्वितीया। मासमधीष्टः मासिको ऽध्यापकः। मासं भृतः मासिकः कर्मकरः। मासं भूतः मासिको व्याधिः। मासं भावी मासिकः उत्सवः। ननु चाध्येषणं भरणं च मुहूर्तं क्रियते तेन कथं मासो व्याप्यते? अध्येषणभरणे क्रियार्थे, तत्र फलभूतया क्रियया मासो व्याप्यमानस् ताभ्याम् एव व्याप्तः इत्युच्यते।
न्यासः
तमधीष्टो भृतो भूतो भावी। , ५।१।७९

"कालाध्वनोरत्यन्तसंयोगे" २।३।५ इति द्वितीया। "तमधीष्टः" इत्यादौ कर्मणि द्वितीया नोपपद्यते; अध्येष्यमाणादि हि पुरुषादिकर्मानयानिष्टयाभिहितम्(), न चान्या क्रियाऽस्ति यस्यां मासादि कर्म स्यात्()। "ननु च" इत्यादिना, यदुक्तम्()--"कालाध्वनोरत्यन्तसंयोगे" २।३।५ द्वितीयेति तद्विघटयति। तेन कथं मासो व्याप्यत इति? न कथञ्चित्()। विघटत इत्यर्थः। यद्धि मुहूर्त्तं क्रियते, तेन मुहूत्र्तेन मासैकदेशो व्याप्यते, न तु सकलो मासः। "क्रियार्थे" इति। अध्ययनादिक्रियार्थे। तदर्थं हि ते क्रियेते। "फलभूतया क्रियया" इति। अध्ययनादिकया। "ताब्यामेव व्याप्त इत्युच्यते" इति। तदन्यव्यापारस्य तत्रोपचारात्()। यथा "चौरेण ग्रामो दग्धः" इत्युक्ते न चौरेण ग्रामो दह्रते, अपि तु तदाह्मतेनाग्निना। उपचारेण तु तथा व्यपदेशः॥
बाल-मनोरमा
तमधीष्टो भृतो भूतो भावी १७२१, ५।१।७९

तमधीष्टो द्वितीयान्तादधीष्टादिष्वर्थेषु ठ()ञ्स्यादित्यर्थः। व्यापारित इति। प्रेरित इत्यर्थः। तादृश एवेति। स्वसत्तया व्याप्यमानकाल इत्यर्थः। मासमधीष्य इत्यादौ "कालाध्वनो"रिति द्वितीया।