पूर्वम्: ५।१।८८
अनन्तरम्: ५।१।९०
 
सूत्रम्
षष्टिकाः षष्टिरात्रेण पच्यन्ते॥ ५।१।८९
काशिका-वृत्तिः
षष्टिकाः षष्टिरात्रेण पच्यन्ते ५।१।९०

षष्टिकशब्दो निपात्यते। बहुवचनम् अतन्त्रम्। षष्टिरात्रशब्दात् तृतीयासमर्थात् कन् प्रत्ययो निपात्यते पच्यन्ते इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः। षष्टिरात्रेण पच्यन्ते षष्टिकाः। संज्ञा एषा धान्यचिशेषस्य। तेन मुद्गादिष्वतिप्रसङ्गो न भवति।
न्यासः
षष्टिकाः षष्टिरात्रेण पच्यन्ते। , ५।१।८९

"बहुवचवान्तस्य निर्देशाद्बहुवचन एव षष्टिकशब्दस्य साधुत्वम्(), नान्यत्र" इति यश्चोदयेत्(), तं प्रत्याह--"बहुवचनमतन्त्रम्()" इति। अप्रधानमित्यचर्थः। अप्रधानत्वं तु तस्य नान्तरीयकत्वात्()। अवश्यं हि येन केनचिद्वचनेन निर्देशः कत्र्तव्यः। यद्येवम्(), एकवचनेन निर्देशः कस्मान्न कृतः, एवं हि लघुर्भवति? सत्यम्(); वैचित्र्यार्थं बहुवचनेन कृतः। यदि "षष्टिरात्रेण पच्यन्ते" इत्यस्मिन्नयं एतन्निपातनं, मुद्गादिष्वतिप्रसङ्गः, तेऽपि हि षष्टिरात्रेणपच्यन्ते? इत्यत आह--"संज्ञैषा" इत्यातदि। धान्यविशेष एव हिं षष्टिकशब्दः संज्ञात्वेन रूढः। तेनाभिधानाम्मुद्गादिष्वतिप्रसङ्गो न भवति॥
बाल-मनोरमा
षष्टिकाः षष्टिरात्रेण पच्यन्ते १७३३, ५।१।८९

षष्टिकाः। तृतीयान्तादिति। "षष्टिरात्रशब्दा"दिति शेषः।