पूर्वम्: ५।१।९१
अनन्तरम्: ५।१।९३
 
सूत्रम्
तेन परिजय्यलभ्यकार्यसुकरम्॥ ५।१।९२
काशिका-वृत्तिः
तेन परिजय्यलभ्यकार्यसुकरम् ५।१।९३

तेन इति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् परिजय्य, लभ्य, काय, सुकर इत्येतेष्वर्थेषु ठञ् प्रत्ययो भवति। मासेन परिजय्यः, शक्यते जेतुं, मासिको व्याधिः। सांवत्सरिकः। मासेन लभ्यः मासिकः पटः। मासेन कार्यम् मासिकं चान्द्रायणम्। मासेन सुकरः मासिकः प्रासादः।
न्यासः
तेन परिजय्यलभ्यकाय्र्यसुकरम्?। , ५।१।९२

"परिजय्यः" इति। परिः सर्वतोभावे। शक्यार्थे कृत्यः। सर्वतः शक्यो जेतुं "परिजय्यः" "लभ्यः" इति, "कार्य्यः" इति। अत्रापि शक्यार्थ एव कृत्यौ। मासेन शक्यो लब्यो मासिकः पटः। मासेन शक्यं कर्तु सुकरं वा मासिकं चान्द्रायणम्()। "तेन निर्वृत्तम्()" ५।१।७८ "तमधीष्टः" ५।१।७९ इति विभक्तितद्वये प्रकृते पुनस्तेनेति तृतीयोपादनां द्वितीयानिवृत्त्यर्थम्॥
बाल-मनोरमा
तेन परिजय्यलभ्यकार्यसुकरम् १७३४, ५।१।९२

तेन परिजय्य। निर्वृत्तायदयः पञ्चार्था निवृत्ताः। तेन परिजय्यं, तेन लभ्यं तेन कार्यं, तेन सुकरमित्यर्थेषु। तृतीयान्ताट्ठञित्यर्थः। परिजय्य इत्यस्य विवरणं--जेतुं शक्य इति।