पूर्वम्: ५।१।९६
अनन्तरम्: ५।१।९८
 
सूत्रम्
तेन यथाकथाचहस्ताभ्यां णयतौ॥ ५।१।९७
काशिका-वृत्तिः
तेन यथाकथाचहस्ताभ्यां णयतौ ५।१।९८

दीयते, कार्यम् इति वर्तते। तेन इति तृतीयासमर्थाभ्यां यथाकथाचहस्तशब्दाभ्यां यथासङ्ख्यं णयतौ प्रत्ययौ भवतः। दीयते, कार्यम् इत्येतयोरर्थयोः प्रत्येकम् अभिसम्बधः, यथासङ्ख्यं न इष्यते। यथाकथाचशब्दो ऽव्ययसमुदायो ऽनादरे वर्तते। तृतीयार्थमात्रं च अत्र संभवति, न तु तृतीया समर्थविभक्तिः। यथाकथाच दीयते कार्यं वा याथाकथाचम्। हस्तेन दीयते कार्यं वा हस्त्यम्।
न्यासः
तेन यथाकथाचहस्ताभ्यां णयतौ। , ५।१।९७

"यथासंख्यं नेष्यते" इति। अल्पाच्तरस्य हस्तशब्दस्य परनिपातो लक्षणव्यभिचारस्य वचनहेतुः। "तृतीयार्थमात्रञ्चात्र सम्भवति" इति। तृतीयार्थस्य गम्यमानत्वात्()। तथा हि--यथाकथाच दत्तमित्युक्ते, अनादरेण दत्तमिति गम्यते। "न तृतीयासमर्थविभक्तिः" इति। यथाकथाचशब्दसय वाक्यत्वात्()। प्रत्यस्तु वचनसामथ्र्याद्वाक्यादपि भवत्येव॥
बाल-मनोरमा
तेन यथाकथाचहस्ताभ्यां णयतौ १७३९, ५।१।९७

तेन यथा।

अर्थाभ्यामिति। प्रकृत्योः प्रत्ययोश्च यथासङ्ख्यम्, नतु दीयते कार्यमित्यनयोरित्यर्थः, वल्याख्यानादिति भावः।