पूर्वम्: ५।१।१३५
अनन्तरम्: ५।२।२
 
सूत्रम्
धान्यानां भवने क्षेत्रे खञ्॥ ५।२।१
काशिका-वृत्तिः
धान्यानां भवने क्षेत्रे खञ् ५।२।१

निर्देशादेव समर्थविभक्तिः। धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भवने ऽभिधेये खञ् प्रत्ययो भवति, तच् चेद् भवनं क्षेत्रं भवति। भवनम् इति भवन्ति जायन्ते ऽस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रम् मौद्गीनम्। कौद्रवीणम्। कौलत्थीनम्। धान्यानाम् इति किम्? तृणानां भवनं क्षेत्रम् इत्यत्र न भवति। क्षेत्रम् इति किम्? मुद्गानां भवनं कुसूलम्। बहुवचनं स्वरूपविधिनिरासार्थम्।
लघु-सिद्धान्त-कौमुदी
धान्यानां भवने क्षेत्रे खञ् ११६७, ५।२।१

भवत्यस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्॥
न्यासः
धान्यनां भवने क्षेत्रे खञ्?। , ५।२।१

"भवन्ति जायन्तेऽस्मिन्निति भवनम्()" इति। अधिकरणे ल्युट्()। जायन्त उत्पद्यन्त इत्यर्थः। एतेनोत्पत्तिवचनो भवतिरत्र गृह्रते, न सत्तावचनः तस्य हि ग्रहणे सत्यन्यत्र चोत्पन्नानां यत्र स्थापनं पश्चाद्यत्र स्थाप्यन्ते तत्रापि प्रसज्येत। यदि तद्ध्युत्पत्तिवचनो भवतिर्गृह्रते, क्षेत्रग्रहणमनर्थकं स्यात्()। तत्र मुद्गानां भवनं कुसूल इत्यत्र मा भूदित्येवमर्थं क्रियते। न चोत्पत्तिवचनस्य भवतेग्र्रहणे सति कुसूले प्रसङ्गः, न ह्रसौ मुद्गादीनामुत्पत्तेरधिकरणम्(), किं तर्हि? सत्तायाः; नैतदस्ति; सति हि क्षेत्रग्रहणे भवतिरत्रोत्पत्तिवचनो भवति। कथम्? क्षेत्रशब्दो ह्रयंधान्यानामुत्पत्त्याधारमाचष्टे। तेन तस्य ग्रहमे सति सत्तां प्रति न भूमिः क्षेत्रव्यपदेशमासादयतीति युक्तं तदुत्पत्तौ भवतिर्वत्र्तत इति। क्षेत्रग्रहणे त्वसति, भवतिः सत्तावचनोऽपि गृह्रते। तथा कुसूलेऽपि प्रसज्येत। अपि च--भवनशब्दो रूढ()आ गृहवचनोऽपयस्ति, सोऽपि क्षेत्रशब्देन निवत्र्यत इति। अथ कथं षषठी समर्थविभक्तिरुपादीयते, यावता "तस्य भावस्त्वतलौ" ५।१।११८ इत्यतः षष्ठीसमर्थविभक्तिरनुवत्र्तत इति ततैव सिद्धम्()। एवं तह्र्रेतज्ज्ञापयति--पूर्वे प्रत्यय#आ नावश्यं षष्ठीसमर्थाद्भवन्तीति। तेन "होत्राभ्याश्छः" ५।१।१३४ इति। होत्रायाः प्रथमासमर्थयाः स्वार्थे च्छः सिद्धो भवति--होत्रैव होत्रीयमिति। एवञ्च चतुर्वर्णादिभ्यः प्रथमासमर्थेभ्यः स्वार्थेष्यञ्? सिद्धो भवति॥
बाल-मनोरमा
धान्यानां भवने क्षेत्रे खञ् १७७९, ५।२।१

अथ पाञ्चमिका निरूप्यन्ते। धान्यानां भवने। धान्यवाचिभ्यः षष्ठ()न्तेभ्यो भने क्षेत्रेऽर्थे खञित्यर्थः। भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह--भवन्त्यस्मिन्निति। भवनमिति। भूधातुरुत्पत्तिवाची। उत्पत्तिस्थानं भवनमिति लभ्यते। धान्योत्पत्तिस्थानं क्षेत्रम्। "केदारः क्षेत्र"मित्यमरः। क्षेत्रशब्दाऽभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्यं गृहकुसूलादिलभ्येत, अतः क्षेत्रपदम्। भवनपदाऽभावे तु क्षेत्रशब्देन सेतुवन्धकाश्यादिपुण्यप्रदेशोऽपि लभ्येत, अतो भवनपदम्। उभयोपादाने तु धान्योत्पत्तिप्रदेश एव लभ्यत इति न पौनरुक्त्यम्।

तत्त्व-बोधिनी
धान्यानां भवने क्षेत्रे खञ् १३७१, ५।२।१

धान्यानाम्। "धिवि प्रीणने"इत्यस्मात् "कृत्यल्युटो बहुल"मिति कर्तरि ण्यत्। अस्मादेव निपातनादन्त्यस्य लोप इकारस्य चात्वम्। धिनोतीति धान्यम्। मन्त्रश्च "धन्यमसि धिमुहि देवान्िति दृश्यते। "धान्याना"मिति भवनापेक्षया कर्तरि षष्ठी। सा च निर्देशादेव समर्थविभक्तिः। बहुवचनं तु स्वरूपविधिनिरासार्थम्। अलौकिके प्रकियावाक्ये तु षष्ठ()न्तत्वानुवादेन तद्विधिसामथ्र्यादेवेति बोध्यम्। भवतिरिहोत्पत्तिवचनः, क्षेत्रग्रहणसामथ्र्यात्। सूत्रे हि सत्तावचनस्यापि भवतेग्र्रहणं माभूदिति क्षेत्रग्रहणं कृतम्। अन्यथा "धान्यानां भवनं कुसूलः"इत्यत्रापि स्यादिति। धान्यानां किम्()। तृणानां भवनं क्षेत्रम्।