पूर्वम्: ५।२।२
अनन्तरम्: ५।२।४
 
सूत्रम्
यवयवकषष्टिकादत्॥ ५।२।३
काशिका-वृत्तिः
यवयवकषष्टिकाद् यत् ५।२।३

यवादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति भवने क्षेत्रे ऽभिधेये। खञो ऽपवादः। यवानां भवनं क्षेत्रम् यव्यम्। यवक्यम्। षष्टिक्यम्।
न्यासः
यवयवकषष्टिकाद्यत्?। , ५।२।३

बाल-मनोरमा
यवयवकषष्टिकाद्यत् १७८१, ५।२।३

यवयवक। यव, यवक, षष्टिक-एभ्यः षष्ठ()न्तेभ्यो भवने क्षेत्रे यत्स्यादित्यर्थः। खञोऽपवादः। "धान्याना"मित्यनुवृत्तेरिहापि षष्ठ()एव समर्थविभक्तिः।

तत्त्व-बोधिनी
यवयवकषष्टिकाद्यत् १३७३, ५।२।३

यवयवक। अत्र प्रत्ययार्थसामथ्र्याल्लभ्या षष्ठी समर्थविभक्तिः। विभाषा खञि नित्ये प्राप्ते वचनम्। औमीनं भाह्गीनमिति। ननूमाभङ्गयोर्धान्यत्वाऽबावात्कथमिह खञ्। "व्राहियश्च मे यवाश्च मे"इति चनकानुवाके हि द्वादशैव धान्यानि पठितानि, न तूमाभङ्गौ पठितौ इति चेत्। मैवम्। "शणसप्तदशानि धान्यानी"ति स्मरणात्। तत्र चोमभङ्गयोरपि पाठाद्धान्यत्वमस्तीति भाष्यादौ स्थितत्वात्। न च चमकानुवाके धान्यपरिगणनेनाऽर्थः, तत्राऽधान्यानामप्यश्मादीनां पाठात्, धान्यानामपि कैषांचित्कोद्रवादीनामपाठात्। तस्मादन्यत एव धान्यनिर्णय इति पूर्वोक्तस्मृत्या तयोर्धान्यत्लमस्तीति ज्ञेयम्।