पूर्वम्: ५।२।९१
अनन्तरम्: ५।२।९३
 
सूत्रम्
इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्- इन्द्रदत्तमिति वा॥ ५।२।९२
काशिका-वृत्तिः
इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तम् इति वा ५।२।९३

इन्द्रियम् इत्यन्तोदात्तं शब्दरूपं निपात्यते। रूढिरेषा चक्षुरादिनां करणानम्। तथा च व्युत्पत्तेरनियमं दर्शयति। इन्द्रशब्दात् षष्ठीसमर्थात् लिङ्गम् इत्येतस्मिन्नर्थे घच्प्रत्ययो भवति। इन्द्रस्य् लिङ्गम् इन्द्रियम्। इन्द्र आत्मा, स चक्षुरादिना करणेन अनुमीयते। नाकर्तृकं करणम् अस्ति। इन्द्रेण दृष्टम्। तृतीयासमर्थात् प्रत्ययः। आत्मना दृष्टम् इत्यर्थः। इन्द्रेण सृष्टम्, आत्मना सृष्टम्। तत्कृतेन शुभाशुभकर्मणोत्पन्नम् इति कृत्वा। इन्द्रेण जुष्टम्, आत्मना जुष्टं, सेवितम्। तद्द्वारेण विज्ञानोत्पादनात्। इन्द्रेण दत्तम्, आत्मना विषयेभ्यो दत्तं यथायथं ग्रहणाय। इतिकरणः प्रकारार्थः। सति सम्भवे व्युत्पत्तिरन्यथा ऽपि कर्तव्या, रूढेरनियमातिति। वाशब्दः प्रत्येकम् अभिसम्बध्यमानो विकल्पानां स्वातन्त्र्यम् दर्शयति।
न्यासः
इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। , ५।२।९२

"रूढिरेषा" इत्यनेननावयवार्थं त्याजयति। कथं पुनर्जायते रूढिरेषा? इत्याह--"तथा च" इत्यादि। यद्येषा रूढिर्न स्यात्(), व्युत्पत्तेरनियमो न स्यात्(); अरूढिशब्देषु नियतत्वादेव तदर्थस्य। रूढिशब्दे त्वस्मिन्? युज्यते व्युत्पत्तेरनियमः। रूढिशब्दानां हि यथाकथञ्चिद्व्युत्पत्तिः क्रियते परिकल्पितेनावयवार्थेन। कथं पुनरात्मा चक्षुरादिना करणेन शक्योऽनुमातुम्()? इत्याह--"नाकर्त्तृकम्()" इत्यादि। अनेनाविनाभावं दर्शयति। इतिकरणओ हेतौ। यस्मात्? करणादीनां प्रवृत्तिर्निवृत्तिर्वा कत्र्रधीना, तस्माद्यत्र तानि तत्रावश्यं कत्र्रा भवितव्यम्()। चक्षुरादिना करणेनाविना भावेनालिङ्गेनात्माऽनुमीयते। कथं पुनस्तदात्मना सेवितम्()? इत्याह--"तद्द्वारेण" इत्यादि। द्वारेम हि विषयेष्वात्मनो ज्ञानमुत्पद्यते। तस्माद्विषयान्? ज्ञातुमात्मा चक्षुरादीनद्रियं सेवते। "यथायथम्? इति। यथास्वम्()। यो यस्येन्द्रियस्य विषयस्तत्? तस्मै दत्तम्()। "इतिकरणः प्रकारार्थः" इति। एवं प्रकारान्तरेणापि व्युत्पत्तिः कर्त्()तव्येत्येतदितिकरणः प्रकारर्थं द्योतयति अत एवाह--"सत् सम्भवे" इत्यादि। इन्द्रेण विषया नीयन्ते सम्बध्यन्त इतीन्द्रियमित्येवमादिका सति सम्भवे तथा व्युत्पत्तिः कत्र्तव्या। "वाशब्दः" इत्यादि। असति हि वाशब्दे "इन्द्रलिङ्गम्" इत्येवमादीनां विकल्पप्रकाराणा पारतन्त्र्यं विज्ञायेत। परस्परापेक्षाया समुच्चिताया एव व्युत्पत्तेः कारणमिति। वाशब्दस्तविन्द्रलिङ्गमितीन्द्रदृष्टमिति चेत्येवं सम्बध्यमानस्तेषां स्वातन्त्र्यं दर्शयति। तेनैकैकः प्रकारः प्रकारान्तरनिरपेक्षो व्युत्पत्तादङ्गभावमुपयाति॥
बाल-मनोरमा
इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा १८६८, ५।२।९२

इन्द्रियम्। इन्द्रलिङ्गमित्याद्यर्थेषु इन्द्रियमिति भवति। इन्द्रशब्दाद्यथायोगं षष्ठीतृतीयान्ताल्लिङ्गमित्याद्यर्थेषु घच् निपात्यत इति यावत्। इन्द्र आत्मेति। "स एतमेव पुरुषं ब्राहृ ततममपश्यदिदमदर्शमिति। तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्रमित्याचक्षते" इति श्रुतेरिति भावः। तस्यलिङ्गमिति। आत्मनोऽनुमापकमित्यर्थः। लिङ्गत्वमुपपादयति--करणेनेति। "चक्षुरादीन्द्रियं किञ्चित्कत्र्रधिष्ठितं भवितुमर्हति, करणत्वात्, घटकरणदण्डादिव"दित्यनुमानादित्यर्थः। मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातामिन्द्रियम्। इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम्। रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः। इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह--इतिकरणमिति। इतिशब्द इत्यर्थः।

तत्त्व-बोधिनी
इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ४७०, ५।२।९२

इन्द्रियमिन्द्र। इन्द्रशब्दाद्धच्। इन्द्रेण दृष्टं=ज्ञातं---"मम चक्षुः, मम श्रोत्रम्" इत्यादिक्रमेण। सृष्टम्---अदृष्टद्वारा। जुष्टं=प्रीणितं सेवितं वा। दत्तं=यथायतं विषयेभ्यः। रूढिशब्दोऽयं यथाकथञ्चिद्व्युत्पादितः।

अथ परस्मैपदप्रक्रिया।

शेषात्कर्तरि। "अनुदात्तङित" इत्यादिष्वात्मनेपदमेवेति नियमान्न तत्र परस्मैपदस्य संभवः। तथा च "कर्तरि परस्मैपद"मित्यनेन "परस्मैपदमेव"ति नियमिते त्दभिन्नानामेव तद्भविष्यतीति शेषग्रहणं स्पष्टप्तिपत्त्यर्थमित्याहुः। "अनुदात्तङितः" इत्यादिष्वेवात्मनेपदमिति नियमात् "शेषात्कर्तरी"इत्यनेन परस्मैपदमेव तत्र भविष्यतीति परस्मैपदग्रहणं स्पष्टप्रतिपत्त्यर्थमिति केचित्।