दिशां शब्दाः दिक्शब्दाः। तेभ्यो दिक्शब्देभ्यो दिग्देशकालेषु वर्तमानेभ्यः सप्तमी। पञ्चमीप्रथमान्तेभ्यः अस्तातिः प्रत्ययो भवति स्वार्थे। यथासङ्ख्यम् अत्र न इष्यते। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्। दिक्शब्देभ्यः इति किम्? ऐन्द्र्यां दिशि वसति। सप्तमीपञ्चमीप्रथमाभ्यः इति किम्? पूर्वं ग्रामं गतः। दिग्देशकालेसु इति किम्? पूर्वस्मिन् गुरौ वसति। इकारस्तकारपरित्राणार्थः।
"दिग्देशकालेषु वत्र्तमानेभ्यः" इति।
कथं पुनर्थे दिशां शब्दास्ते देशे काले वत्र्तन्ते? स्वभावात्()। यथैव हि ते दिश स्वबावादेव वत्र्तन्ते, न हेत्वन्तरात्(),; तथा देशकालयोरपि। यद्यवम्(),
त्रिषु वत्र्तमानाः कथं दिशा व्यपदिश्यन्ते--दिक्शब्देभ्य इति? कथं तर्हि व्यपदेष्टव्यम्(),
दिग्देशकालशब्देभ्य इति? नैतदस्ति;
एवं हि व्यपदेशस्यैतत्? फलम्()--ऐन्द्र()आं दिशि निवसतीत्यत्र मा भूदिति। एतच्चान्यतमेनापि लभ्यत इत्यनेनैव व्यापदेशो युक्तः, येन व्यपदेशाल्लधु सूत्रं भवति। दिशा च व्यपदेशे लघु भवति, दिक्शब्दस्याल्पाच्तरत्वादिति दिशां तेन व्यपदेशः। एवमपि दिक्शब्दस्य दिशि वृत्तेः विशेषणमयुक्तम्(), अवस्यं हि दिक्शब्दो दिशि वत्र्तते,
तत्रैवं कत्र्तव्यम्()--देशकालयोरिति? नैतदस्ति; एवं ह्रु च्यमाने सत्युपलक्षणमेव हि दिक्शब्दः स्यात्(), प्रत्यस्तु देशकालवृत्तिभ्य एव स्यात्(), न दिग्वृत्तिभ्यः। दिग्ग्रहणे तु तेभ्योऽपि भवति।
इह तिरुआओ विभक्तयः, त्रयश्चार्था दिगादयः, तत्र साम्याद्यथासंख्येन भवितव्यम्()--इति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तामपाकर्तुमाह--"यथासंख्यमत्र नेष्यते" इति।
तत्कथमिहेकवचननिर्देशे कत्र्तव्ये बहुवचननिर्देशः? प्रत्येकं दिगादिवृत्तेर्बहुलविभक्त्यन्तात्? प्रत्ययः कत्र्तव्य इति सूचनार्थः।
एवञ्चायं बहुलविभक्त्यन्तात्? प्रत्ययः कृतो भवति, यदि दिग्वृत्तेरपि सप्तमीपञ्चमीप्रथमान्तादेव भवति--देशवृत्तेरपि, कालवृत्तेरपि। अथ वा-"था हेतौ च"
५।३।२६ इत्यतश्चकारोऽनुवत्र्तते, स च श्रुतिमेव समुच्चिनोति।
तेन दिगादिवृत्तेः प्रत्येकं सप्तमीपञ्चमीप्रथमान्तात्? प्रत्ययो भवति, न यतासंख्यम्()! यथासंख्यं हि समुच्चयो विरुध्यतेत। अथ वा--"स्वरितत्वे सति यथासंख्यं भवति" इत्युक्तम्(), न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायेत, तेन यथासंक्यं न भविष्यति।
"पुरस्तावधस्तात्()" इति। पूर्वाधरशब्दाभ्यामस्तातिः। "अस्ताति च"
५।३।४० इति वक्ष्यमाणेन यथासंख्यं पुर्(), अध--इत्येतौ पूर्वाधरशब्दयोरादेशौ।
"ऐन्द्र()आं दिशि वसति" इति। ऐन्द्रीशब्दः सामान्येनेन्द्रसम्बन्धिवस्तुमात्रमाचष्टे, दिक्शब्दसन्निधौ तु दिशि वत्र्तते, तेन दिक्शब्द इति लोके न प्रसिद्ध इतदि न भवत्यतः प्रत्ययः। "पूर्वं ग्रामं गतः" इति। पूर्वशब्दोऽत्र ग्रामस्य देशात्मकत्वाद्देशे वत्र्तते, न त्वत्र सप्तम्यादिविभक्त्यन्तः, किं तु द्वितीयान्त।
"पूर्वस्मिन्? गुरौ वसति" इति पूर्वशब्दोऽत्र दिगाद्युपलक्षिते गुरौ वत्र्तते, न दिगादिषु॥