पूर्वम्: ५।३।८
अनन्तरम्: ५।३।१०
 
सूत्रम्
पर्यभिभ्यां च॥ ५।३।९
काशिका-वृत्तिः
पर्यभिभ्यां च ५।३।९

परि अभि इत्येताभ्यां तसिल् प्रत्ययो भवति। सर्वोभयार्थे वर्तमानाभ्यां प्रत्यय इष्यते। परितः। सर्वतः इत्यर्थः। अभितः। उभयतः इत्यर्थः।
लघु-सिद्धान्त-कौमुदी
पर्यभिभ्यां च १२०६, ५।३।९

आभ्यां तसिल् स्यात्। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥
न्यासः
पर्यभिभ्याञ्च। , ५।३।९

"सर्वोभयार्ते वत्र्तमानाभ्यामिष्यते" इति। तेनेह न भवति--परिषिञ्चिति, अभियातीति। अत्र चानभिदानं हेतुः।य अत वा--"सर्वस्य" ५।३।६ इत्यादेः सूत्रादन्यतरस्यांग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेन सर्वोभयार्थं एव वत्र्तमानाभ्यां भवति, नान्यत्र॥
बाल-मनोरमा
पर्यभिभ्यां च १९३१, ५।३।९

पर्यभिभ्यां च।

सर्वोभयार्थाभ्यामेवेति। वार्तिकमिदम्। परिषिञ्चति अबिषिञ्चतीत्यादौ वाग्रहणात्पक्षे न तसिल्।