पूर्वम्: ६।१।३५
अनन्तरम्: ६।१।३७
 
सूत्रम्
न सम्प्रसारणे सम्प्रसारणम्॥ ६।१।३६
काशिका-वृत्तिः
न सम्प्रसारणे सम्प्रसारणम् ६।१।३७

सम्प्रसारने परतः पूर्वस्य यणः सम्प्रसारणं न भवति। व्यध विद्धः। व्यच विचितः। व्येञ् संवीतः। एकयोगलक्षनम् अपि सम्प्रसारणम् अत एव वचनात् प्रथमं परस्य यणः क्रियते, पूर्वस्य च प्रसक्तं प्रतिषिध्यते। सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारनग्रहणं विदेशस्थस्य अपि सम्प्रसारणस्य प्रतिषेधो यथा स्यातिति। श्वयुवमघोनाम् अतद्धिते ६।४।१३३ यूनः। यूना। सम्प्रसारणग्रहणसामर्थ्यातेव पूर्वस्य प्रतिषेधे वक्तव्ये स्वर्णदीर्घत्वम् एकादेशो न स्थानिवद् भवति। सति वा स्थानिवत्त्वे व्यवधानमेतावदाश्रयिष्यते। ऋचि त्रेरुत्तरपदादिलोपश् छन्दसि। ऋचि परतः त्रेः सम्प्रसारणम् भवति उत्तरपदादिलोपश्च छन्दसि विषये। तिस्र ऋचः यस्मिन् तत् तृचं सूक्तम्। तृचं साम। ऋक्पूरब्धूःपथामानक्षे ५।४।७४ इति समासान्तः। छन्दसि ति किम्? त्यृचं कर्म। रयेर्मतौ बहुलम्। रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं सम्प्रसारणं भवति। आ रेवानेतु नो विशः। न च भवति। रयिमान् पुष्टिवर्धनः।
लघु-सिद्धान्त-कौमुदी
न संप्रसारणे संप्रसारणम् २९३, ६।१।३६

संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात्। इति यकारस्य नेत्वम्। अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम्। यूनः। यूना। युवभ्याम् इत्यादि॥ अर्वा। हे अर्वन्॥
न्यासः
न सम्प्रसारहणे सम्प्रसारणम्?। , ६।१।३६

येषां सम्प्रसारमुक्तं तेषां यावन्तो यणः सम्भवन्ति तेषां सर्वेषां सम्प्रसारणं प्राप्तमिति प्रतिषेधोऽयमारभ्यते। ननु चालोऽन्त्यपरिभाषया १।१।५१ अन्त्यस्यैव भविष्यति, नानन्त्यस्य? नैतदस्ति; न ह्रनया परिभाषया शक्यमिहोपस्थातुम्()। विचस्वपियजादीनामन्त्यस्य यणोऽसम्भवात्()। एवं तर्हि "अनन्त्यविकारेऽन्त्यसदेशस्य" (व्या।प।६३) इत्यन्त्यसदेशस्य कार्यं भविष्यति--अन्त्यसदेशो यो यण्? तस्यैव कार्यं भविष्यति, नैतरस्य? नैषास्ति परिभाषा; प्रयोजनाभावात्()। यदाह--तस्याः परिभाषाया सन्ति प्रयोजनातीति। तस्मात्? कत्र्तव्यमेतत्? सूत्रम्()। ननु च पूर्वपरयोरेकयोगलक्षणं सम्प्रसारहणम्(), ततो यदि तत्? परस्याभिनिर्वृत्तं तदा पूर्वस्याप्यभिनिर्वृत्तमेव, न चाभिनिर्वृत्तस्य निवृत्तिः शक्यते कर्त्तुम्(), नाप्यनभिनिर्वृत्तस्य निमित्तत्वेनाश्रयणं युज्यते, ततोऽस्मादेव प्रतिषेधवचनात्? तत्? परस्य तावत्? क्रियते; तत्र कृते तु पूर्वस्यापि प्राप्तं प्रतिषिध्यते। अथ सम्प्रसारणमित्यनुवत्र्तमाने पुनः सम्प्रसारणं किमर्थम्()? इत्याह--"सम्प्रसारणम्()" इत्यादि। असति पुनः सम्प्रसारणग्रहणे "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या। प।१९) इति प्रकृतस्यैव सम्प्रसारणस्य प्रतिषेधः स्यात्(), न विदेशस्थस्य। तस्माद्विदेशस्थस्यापि भिन्नप्रकारणविहितस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः सम्प्रसारणग्रहणम्()। "यूनो यूना" इति। सम्प्रसारणे कृते परपूर्वत्वे कृते च "अकः सवर्णे दीर्घः" ६।१।९७। ननु च क्रियमाणेऽपि पुनः सम्प्रसारणग्रहणे तत्र प्रतिषेधो न स्यात्(), सवर्णदीर्घत्वस्य पूर्वविधौ स्थानिवद्भावे सत्युकारव्यवहितत्वात्()? अत आह--"सम्प्रसारणग्रहणसामथ्र्यदेव" इत्यादि। यदि स्थानिवद्भावः स्यात्(), अनर्थकं पुनः सम्प्रसारणग्रहणं स्यादित्यभिप्रायः। अभ्युपेत्य पुनः परिहारान्तरमाह--"सति वा" इत्यादि। सम्प्रसारणग्रहणसामथ्र्यादेवात्राश्रूयमाणोऽपिशास्तरान्तरेण स्थानिवद्भावमापन्नो योऽज्? व्यवधानं करोति, तन्मात्रेण व्यवधानं नाश्रयिष्यते--मा भूत्? सम्प्रसारणग्रहणमनर्थकमिति। ननु च "यूनश्च कुत्सायाम्? ४।१।१६५, "वृद्धो यूना" १।२।६५ इति निपातनादेव यूनः, यूनेत्यत्र सम्प्रसारणं न भविष्यति, तत्? किमेतन्निवृत्त्यर्थेन पुनः सम्प्रसारणग्रहणेन? नैतदस्ति; अबाधकन्यपि निपातनानि भवन्तीत्युक्तम्()। अपि चैतद्विषयमेव निपातनं विज्ञायते, तथा च--यूनः, यूना यूनीत्यत्र सम्प्रसारणं स्यादेवेति। "आरेवान्()" इति। रयिरस्यास्तीति मतुप्()। सम्प्रसारणे कृते "आद्गुणः"; ६।१।८४, "छन्दसीरः" ८।२।१५ इति वत्वम्()॥
बाल-मनोरमा
न संप्रसारणे संप्रसारणम् , ६।१।३६

न संप्रसारणे। इति यकारस्येति। सवर्णदीर्घनिष्पन्नस्य ऊकारस्य "अचः परस्मिन्" इति स्थानिवत्त्वेन संप्रसारणतया यकारस्य संप्रसारणपरकत्वान्न संप्रसारणमिकार इत्यर्थ#ः। ननूकारद्वयस्थानिकस्य ऊकारस्य स्थानिवत्त्वे सति तस्य उकारद्वयात्मकतया प्रथमेन उकारेण व्यवधानात्संप्रसारणपरत्वाऽभावात्कथमिह निषेधः()। "येन नाव्यवधान"मिति न्यायस्य तु नायं विषयः, विव्याथेत्यादौ "व्यथो लिटी"ति वकारस्याऽव्यवहितसंप्रसारणपरत्वे निषेधस्य चरितार्थत्वादिति चेन्मैवम्। एवं हि सति "न संप्रसारणे संप्रसारण"मिति निषेधस्य "व्यथो लिटी"ति संप्रसारणमात्रविषयकत्वमापद्येत। एवंच सति "व्यथो यो लिटी"ति यकारग्रहणेनैव सिद्धे "न संप्रसारणे संप्रसारण"मिति सूत्रमनर्थकमेव स्यात्। अतः "()आयुवे"ति संप्रसारणनिषेधकत्वमस्यावश्यकमिति व्यवहितेऽपि संप्रसारणे परे "यून" इत्यादौ निषेधो निर्बाधः, "यूनस्ति"रित्यादिनिर्देशाच्चेत्यलम्। ननु सकृत्प्रवृत्त्यैव युवन्शब्दे यवयोः संप्रसारणे जाते निषेधो व्यर्थः। निमित्तत्वानुपपत्तिश्च। यद्वा प्रथमं यकारस्य संप्रसारणमस्तु। तदानीं संप्रसारणपरत्वाऽभावेन निषेधाऽप्रवृत्तेः। अनन्तरं तु वकारस्यापि संप्रसारणमस्तु। तत्राह--अत एव ज्ञापकादिति। अन्यथा एतन्निषेधारम्भवैयथ्र्यापातादिति भावः। इत्यादिति। यूने। यूनः, २। यूनोः। यूनि। "आतो मनिन्क्वनिब्वनिपश्च", "अन्येभ्योऽपि दृश्यते" इति ऋधातोर्वनिपि गुणे रपरत्वेऽर्वन्शब्दोऽ()ओ योगरूढः।

तत्त्व-बोधिनी
न संप्रसारेण संप्रसारणम् ३२४, ६।१।३६

न संप्रसारणे। "ह्वः" संप्रसारण"मित्यतः "संप्रसारणमित्यनुवर्तमानेऽपि पुनः सम्प्रसारणग्रहणात्प्रदेशान्तरस्थं "()आयुवमघोना"मित्यपि संप्रसारणं निषिध्यते, तदाह--इति यकारस्य नेत्वमिति। यून इति। ननू कारेण व्यवधानात्कथमत्र निपेधः(), "विव्याध""विव्यथे"इत्यादावव्यवधानेऽपि निषेधस्य चरितार्थत्वात्। न च सम्प्रसारणग्रहणादेव व्यवधानमिति वाच्यम्, "अचः परस्मि"न्निति स्थानिवत्त्वात्। अत्राहुः--विदेशस्थानिषेधार्थत्पुनः सम्प्रसारणग्रहणादेव व्यवधानेऽप्यत्र निषेधोभविष्यतीत्यदोषः। न च"व्यथो लिटी"ति विदेशस्थेन यकारस्य संप्रसारणे कृते वकारस्य तदभावाय "न सम्प्रसारणे"इति सूत्रं प्रवर्त्त्य पुनः संप्रसारणग्रहणं चरितार्थमिति व्यवधेने निषेधो न भविष्यतीति शङ्क्यं, "व्यथो लिटी"त्येतद्धलादिः शेषापवाद"इत्याकरे स्पष्टत्वात्। "उत्सर्गसदेशश्चापवाद"इति परस्यैव संप्रसारणं भवति न पूर्वस्ये"ति कैयटेन व्याख्यातत्वाच्चेचि।