पूर्वम्: ६।१।६०
अनन्तरम्: ६।१।६२
 
सूत्रम्
पद्दन्नोमाशृन्निशसन्यूषन्दोषन्यकञ्छकनुदन्नासञ्छस् प्रभृतिषु॥ ६।१।६१
काशिका-वृत्तिः
पद्दन्नोमाशृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ् छस्प्रभृतिषु ६।१।६३

पाद दन्त नासिका मास हृदय निशा असृज् यूष दोष यकृत् शकृतुदक आसन इत्येतेषां शब्दानां स्थाने शस्प्रभृतिप्रत्ययेषु परतः पद् दत् नस् मास् हृद् निशसन् यूषन् दोषन् यकन् शकनुदनासनित्येते आदेशाः यथासङ्ख्यं भवन्ति। पद् निपदश्चतुरो जहि। पदा वर्तय गोदुहम्। पादः पत् ६।४।१३०। दत् या दतो धावते तस्यै श्यावदन्। नस् सूकरस्त्वा खनन्नसा। मास् मासि त्वा पश्यामि चक्षुषा। हृद् हृदा पूतं मनसा जातवेदो। निश् अमावास्यायां निशि यजेत्। असन् असिक्तो ऽस्ना ऽवरोहति। यूषन् या पात्राणि यूष्ण आसेचनानि। दोषन् यत्ते दोष्णो दौर्भाग्यम्। यकन् यक्नो ऽवद्यति। शकन् शक्नो ऽवद्यति। उदन् उद्नो दिव्यस्य नो देहि। आसन् आसनि किं लभे मधूनि। शस्प्रभृतिषु इति किम्? पादौ ते प्रतिपीड्यौ। नासिके ते कृशे। केचिदत्र छन्दसि इत्यनुवर्तयन्ति। अपरे पुनरविशेषेण इच्छन्ति। तथा हि भाषायाम् अपि पदादयः शब्दाः प्रयुज्यन्ते। व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च। व्याधयो न उपसर्पन्ति वैनतेर्यामवोरगाः। इत्येवम् आदयः। अन्यतरस्याम् इत्येतदनुवर्तयन्ति। तेन पादादयो ऽपि प्रयुज्यन्ते। शस्प्रभृतिषु इति प्रकारार्थे प्रभृतिशब्द इति शला दोषणी इत्यत्र अपि दोषन्नादेशो भवति। पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम्। मांस पृतना सानु इत्येतेषां स्थाने यथासङ्ख्यम् मांस् पृत् स्नु इत्येते आदेशाः भवन्ति। मांस्पचन्या उखायाः। मांसपचन्या इति प्राप्ते। पृत्सु मर्त्यम्। पृतनासु मर्त्यम् इति प्राप्ते। न ते दिवो न पृथिव्या अधिस्नुषु। अधिसानुषु इति प्राप्ते। नस् नासिकाया यत्तस्क्षुद्रेषु। नासिकाया नस्भावो वक्तव्यः यत् तस् क्षुद्र इत्येतेषु परतः। नस्यम्। नस्तः। नःक्षुः। यति वर्णनगरयोर् न इति वक्तव्यम्। नासिक्यो वर्णः। नासिक्यं नगरं।
न्यासः
पद्दन्नोमाश्मन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु। , ६।१।६१

इहापि शस्प्रभृतयो निमित्तत्वेनोपादीयन्ते, ते च प्रकृत्या विना नोपपद्यन्त इति भावः। तेषु प्रकृत्यन्तराद्विहितेषु विधीयमानाः पदादय आदेशा विज्ञायन्ते। न च स्थानिनोऽनुपादानादियमेनादेशप्रसङ्गः, यतस्तेष्वादिश्यमानेषु शस्प्रभृतयोऽनुरूपमेव पादादिकां स्वार्थिकीं प्रकृतिमाक्षिपन्तीत्याह--"पाददन्तनासिका" इत्यादि। पदित्याद्युदाहरणेषु पदो दत इति शसन्ते। "यूष्णः, दोष्णः, यक्नः, शक्नः" ति षष्ठ()एकवचनान्तानि। "अल्लोपोऽनः" ६।४।१३४ इत्यकारलोपः। "मासि, निशि, आसनि" इति सप्तम्येकवचनान्तानि। आसनीत्यत्र "विभाषाङिश्योः" ६।४।१३६ इति पक्षेऽकारलोपो न भवति। शेषाणि तृतीयैकवचनान्तानि। "पादौ, नासिके" इति प्रथमाद्विवचनान्ते। कस्मात्? पुनरन्यतरस्यामित्येतदनुवत्र्तयन्ति? इत्याह--"तेन पादादयोऽपि" इत्यादि। यस्मात्? पादादयोऽपि प्रयुज्यन्ते तस्मादन्यतरस्यामित्यनुवत्र्तयन्ति। व्यवस्थावाचिनि प्रभृतिशब्द आश्रोयमाणे शस्प्रभृतिभ्योऽन्यत्रादेशो न सिध्यतीत्यभिप्रायेणाह--"प्रकारार्थे प्रभृतिशब्दः" इति। "दोषणी" इति। केचिदाहुः--प्रथमाद्विवचने दोषन्नादेशः, औङः शीभावः। अन्ये त्वाहुः--दोषणीति ङीबन्तमेतत्(), ङीपि विषयभूते दोषन्नादेशः, ततः "ऋन्नेभ्यो ङीप्()" ४।१।५। "नस्यम्()" इति। हितार्थे "शरीरावयवाद्यत्()" ५।१।६। "नस्तः" इति। "अपादाने चाहीयरुहोः" ५।४।४५ तसिः। "नःक्षुद्रः" इति। नासिका क्षुद्रा यस्येति बहुव्रीहिः। "नासिक्यो वर्णः" इति। भवार्थे "शरीरावयवात्()" ५।१।६ इति यत्()। नासिक्यं नगरमिति अत्र हितार्थे यत्()॥
बाल-मनोरमा
पद्दनोमाश्मन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु २२६, ६।१।६१

अथ पादशब्दस्य शसादौ विशेषं दर्शयितुमाह--पद्दन्नो। पद्-दत्-नस्-मास्-ह्मद्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन्-इत्येषां समाहरद्वन्द्वः। शश्-द्वितीयाबहुवचनं प्रभृति=आदिः येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः। "अनुदात्तस्य चर्दुपधस्यान्यतरस्या"मित्यतोऽन्यतरस्यामित्यनुवर्तते। शसादिषु परेषु पदादय आदेशा वा स्युरित्यर्थः। पदाद्यादेशैश्च स्वानुरूपाः स्थानिन आक्षिप्यन्ते। तदाह--पदादन्तेत्यादिना। यथासङ्ख्यापरिभाषया, पादादीनां क्रमेण पदादय आदेशाः प्रत्येतव्याः। तत्प्रामादिकमिति। भ्रममूलकमित्यर्थः। "हव्या जुहान आसनि" इति मन्त्रे "आसन्यं प्राणमूचु"रित्यादौ च आस्यार्थकत्वस्यैव दर्शनादिति भावः। दन्तशब्दस्य सुटि रामवत्। शसि पद्दन्निति ददादेशः। दत्-अस् इति स्थिते तकारस्य "झलां जशोऽन्ते" इति पदान्ते विधीयमानं जश्त्वमाशङ्कितुं पदसंज्ञाविधायकं सूत्रं वक्ष्यति--"स्वादिष्वसर्वनामस्थान" इति।

तत्त्व-बोधिनी
पद्दन्नोमाश्मन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु १९१, ६।१।६१

पद्दन्नो। शसादौ वेति। "अनुदात्तस्य चर्दुपधस्ये"त्यतोऽन्यतरस्यामित्यनुवर्तत इति भावः। अत्र शस्प्रभृतयो निमित्ततयोपात्ताः, ते च पदाद्यादेशानुरूपान्प्रकृतिविशेषानाक्षिपन्तीत्याह-पाददन्तेति। यद्यसि "शीर्षंश्छन्दसी"त्यतः "छन्दसी"त्यनुवर्तते, तथापि भाषायामपि क्वचित्पदादयो भवन्ति, "मासश्छन्दसी"ति वार्तिके छन्दोग्रहणसामथ्र्यादिति वक्ष्यति। प्रामादिकमिति। तथाहि-"आस्नो वृकस्य वर्तिका"मिति मन्त्रे मुखादित्यर्थः, औचित्यात्। "वृकस्य चिद्वर्तिकामन्तरास्यात्" इति मन्त्रान्तरसंवादाच्च। तथा "हव्या जुह्वान आसनि" इति मन्त्रे मुखे इत्यर्थः। एवम् "आसन्यं प्राणमूचुः" इत्यादावपि बोध्यम्।