पूर्वम्: ५।१।५
अनन्तरम्: ५।१।७
 
सूत्रम्
शरीरावयवाद्यत्॥ ५।१।६
काशिका-वृत्तिः
शरीरावयवाद् यत् ५।१।६

शरीर प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकात् यत् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। दन्त्यम्। कण्ठ्यम्। ओष्ठ्यम्। नाभ्यम्। नस्यम्।
लघु-सिद्धान्त-कौमुदी
शरीरावयवाद्यत् ११४३, ५।१।६

दन्त्यम्। कण्ठ्यम्। नस्यम्॥
न्यासः
शरीरावयवाद्यत्?। , ५।१।६

शीर्यत इति शरीरम्(), तेन घटादेरपि ग्रहणं भविष्यतीत्यत आह--"शरीरं प्राणिकायः" इति। एतेन रूढिरियमिति दर्शयति। गवादावेति शरीरावयववाचिनः। तत्र तु याः प्रकृतयस्ताभ्योऽनेनापि पूर्वेणापि वा यति विशे षो नास्त्येव। यत्र विशेषः--"नाभि नभञ्च" (ग।सू।१०६) इति, स विशेषस्तत्रैव वेदितव्य एव॥
बाल-मनोरमा
शरीरावयवाद्यत् १६४४, ५।१।६

शरीरावयवाद्यत्। शरीरावयवविशेषवाचकाच्चतुथ्र्यन्ताद्धितमित्यर्थे यत्स्यादित्यर्थः। छस्यापवादः।

नस्यमिति। नासिकायै हितमित्यर्थः। "पद्दन्" इति नस्, प्रभृतिग्रहणमस्य प्रकारार्थत्वात्। भाष्ये तु "नासिकाया यत्-तस्-क्षुद्रेषु नस्" इति पठितम्। नाभ्यमिति। नाभये हितमित्यर्थः। नाभिरत्र शरीरावयवः। रथावयवत्वे तु नभादेश उक्तः।

तत्त्व-बोधिनी
शरीरावयवाद्यत १२६९, ५।१।६

नस्यमिति। नासिकायै हितम्। "नासिकायां भव"मिति विग्रहे तु "शरीरैवयवाच्चे"ति यत्। नस्यम्। तस्युदाहरणं---नस्तः। "अपादाने चाहीयरुहो"रिति तसिः। क्षुद्रे तु--नासिकायाः क्षुद्रो नःक्षुद्रः। "सुप्सुपे"ति समासः। नाभ्यमिति। "नाभि नभं चे"ति नभादेशो रथनाभावेव प्रवर्तते, तस्य गवादियता संनियोगशिष्टत्वादिति भावः।