पूर्वम्: ६।३।१४
अनन्तरम्: ६।३।१६
 
सूत्रम्
विभाषा वर्षक्षरशरवरात्॥ ६।३।१५
काशिका-वृत्तिः
विभाषा ६।३।१६

वर्ष क्षर शर वर इत्येतेभ्य उत्तरस्यः सप्तम्याः जे उत्तरपदे विभाषा अलुग् भवति। वर्षेजः, वर्षजः। क्षरेजः, क्षरजः। शरेजः, शरजः। वरेजः, वरजः।
न्यासः
विभाष वर्षक्षरशरवरात्?। , ६।३।१५

बाल-मनोरमा
विभाषा वर्षक्षरशरवरात् ९५९, ६।३।१५

विभाषा वर्ष। शेषपूरणेन सूत्रं व्याचष्टे--एभ्यस्सप्तम्या इति।