सूत्रम्
ईदग्नेः सोमवरुणयोः॥ ६।३।२६
काशिका-वृत्तिः
ईदग्नेः सोमवरुणयोः ६।३।२७
सोम वरुण इत्येतयोः देवताद्वन्द्वे अग्नेः ईकारादेशो भवति। अग्नीषोमौ। अग्नीवरुणौ। अग्नेः स्तुत्स्तोमसोमाः
८।३।८२ इति षत्वम्।
न्यासः
ईदग्नेः सोमवरुणयोः। , ६।३।२६
आनङादेशापवादोऽयमीकारो विधीयते। तकार उच्चारणार्थः॥
बाल-मनोरमा
ईदग्नेः सोमवरुणयोः ९१३, ६।३।२६
ईदग्नेः। इत्येवेति। "देवताद्वन्द्वे" इत्यनुवर्तत एवेत्यर्थः। सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्याद्देवताद्वन्द्वे इत्यर्थः। आनङोऽपवादः।
तत्त्व-बोधिनी
ईदग्नेः सोमवरुणयोः ७८९, ६।३।२६
ईदग्नेः। आनङोऽपवादोऽयम्। देवताद्वन्द्व इत्येवेति। इदं च वृत्तिगन्थे स्थितम्। ज्यतिर्लतयोरदेवताद्वन्द्वेऽपि "अग्नीषोमौप्रणेष्यामि"इत्या()आलायनप्रयोगस्त्वार्षत्वात्साधुः। यद्वा मास्तु तदनुवृत्तिः, अद्निसोमौ माणवकावित्यत्र "अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः"इति न्यायेनाऽदोषत्वात्।