पूर्वम्: ६।३।७४
अनन्तरम्: ६।३।७६
 
सूत्रम्
एकादिश्चैकस्य चादुक्॥ ६।३।७५
काशिका-वृत्तिः
एकादिश् च एकस्य च आदुक् ६।३।७६

एकादिश्च नञ् प्रकृत्या भवति, एकशब्दस्य च आदुकागमो भवति। एकेन न विंशतिः कान्नविंशतिः। एकान्नत्रिंशत्। तृतीया इति योगविभागात् समासः। पूर्वान्तो ऽयम् आदुक् क्रियते पदान्तलक्षणो ऽत्र अनुनासिको विकल्पेन यथा स्यातिति।
न्यासः
एकादिश्चैकस्य चादुक्?। , ६।३।७५

एकादिरिति बहुव्रीहिः। "एकान्नविंशतिः" इति। पूर्वं नञो विंशतिशब्देन समासं कृत्वा ततस्तृतीयसमासः कत्र्तव्यः। किमर्थं पुनरयं पूर्वान्त आदुक्? क्रियते, न परादिरेवादुट्? क्रियेत? तत्राण्यमर्थः--एकस्य चेत्येष आगमिनो दिर्देशो न कत्र्तव्यो भवति। परादौ हि क्रियमाणे नञेवागमो भवति, स च प्रकृतत्वादेव लक्ष्यते; तत्रायं वक्यार्थो भवति--"एकादिश्च नञ्? प्रकृत्या भवति, आदुट्? च तस्यागमो भवति" इति सिद्धमिष्टम्()? इत्याह--"पूर्वान्तोऽयम्()" इत्यादि। "यरोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इत्यत्र हि "न पदान्ताट्टोरनाम्()" ८।४।४१ इत्यतः पदन्तादित्यनुवत्र्तते। तत्र यदि परदिः क्रियते पदान्तताऽस्य न स्यात्(), ततश्च पदान्तलक्षणोऽनुनासिकविकल्पो न स्यात्(), इष्यते च। तस्माद्विकल्पेन यथा स्यादित्येवमर्थं पूर्वान्त आदुक्? क्रियते। अथ किमर्थमादुक् क्रियते? आदुगेव नोच्येत, अदुक्यपि क्रियमाणेऽकः सवर्णो दीर्घत्वेन (६।१।१०१) सिध्यति? न सिध्यति; "अतो गुणे" ६।१।९४ पररूपत्वं प्राप्नोति, तदपयकारोच्चारणसामथ्र्यान्न भविष्यति, यदि ह्रत्र पररूपत्वं स्याद्दुकमेव विदध्यात्(), तर्हि सवर्णदीर्घत्वमप्यकारोच्चारणसामथ्र्यान्न स्यात्()? नैतदस्ति; तथा हि--यं विधिं प्रत्युपदेशोऽनर्थकः स्यात्? स विधिर्बाध्यते (व्या।प।५६) यस्य तु विधेस्तदेव निमित्तं नासौ विधिर्बाध्यते। पररूपत्वं च प्रत्यकारोच्चारणमनर्थकम्(), सवर्मदीर्घत्वं तु प्रति निमित्तमेव। एवं तह्र्रदुगेवायम्()। तुल्या हि संहिता॥
बाल-मनोरमा
एकादिश्चैकस्य चाऽदुक् ८०१, ६।३।७५

एकादिश्च। "नलोपो नञः" इत्यतो "नञ" इति षष्ठ()न्तमनुवर्तते। तच्चप्रथमया विपरिणम्यते। "नभ्राण्नपात्" इत्यतः प्रकृत्येत्यनुवर्तते। तदाह--एकादिर्नञ्प्रकृत्येति। एक आदिर्यस्येति विग्रहः। एकस्य चादुगागमश्चेति। आदु"गिति "अदु"गिति वा च्छेदः। नञो विंशत्येति। न विंशतिरिति विग्रहे नञ्समासे सति "नवंशति" शब्दस्यैकशब्देन तृतीयान्तेन सह एकेन नवंशितिरिति विग्रहे समास इत्यन्वयः। ननु तत्कृतत्वाद्यभावात्कथमिह तृतीयासमास इत्यत आह--योगविभागादिति। अनुनासिकविकल्प इति। तृतीयासमासे कृते सुब्लुकि एक नविंशतिरिति स्थिते "न लोपो नञः" इति प्राप्तस्य नकारलोपस्य प्रकृतिभान्निवृत्तौ एकशब्दस्याऽ‌ऽदुगागमः, तत्र ककार इत्, उकार उच्चारणार्थः। कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद्-नविंशतिरिति स्थिते "यरोऽनुनासिके" इति दकारस्य पक्षेऽनुनासिकनकार इत्यर्थः। अदुगागमपक्षेऽपि पररूपं तु अकारोच्चारमसामथ्र्यान्न भवति। एकेन न विंशतिरिति। विग्रहवाक्यम्। एकेन हेतुना विंशतिर्न भवतीत्यर्थः। एकान्नविंशतिः, एकाद्नविंशतिरिति। अनुनासिकत्वे तदभावे च रूपम्। एकोनविंशतिरित्यर्थ इति। "पर्यवस्यती"ति शेषः। एकेन ऊनेति विग्रहः। "पूर्वसदृशे"ति समासः। सा चासौ विंशतिश्च।