पूर्वम्: ६।४।१०५
अनन्तरम्: ६।४।१०७
 
सूत्रम्
उतश्च प्रत्ययादसंयोगपूर्वात्॥ ६।४।१०६
काशिका-वृत्तिः
उतश् च प्रत्ययादसंयोगपूर्वात् ६।४।१०६

उकारो यो ऽसंयोगपूर्वः तदन्तात् प्रत्ययादुत्तरस्य हेर्लुक् भवति। चिनु। सुनु। कुरु। उतः इति किम्? लुनीहि। पुनीहि। प्रत्ययातिति किम्? युहि। रुहि। असंयोगपूर्वातिति किम्? प्राप्नुहि। राध्नुहि। तक्ष्णुहि। उतश्च प्रत्ययाच् छन्दोवावचनम्। उतश्च प्रत्ययादित्यत्र छन्दसि वा इति वक्तव्यम्। आतनुहि यातुधानान्। धिनुहि यज्ञपतिम्। तेन मा भगिनं कृणु।
लघु-सिद्धान्त-कौमुदी
उतश्च प्रत्ययादसंयोगपूर्वात् ५०५, ६।४।१०६

असंयोगपूर्वात्प्रत्ययोतो हेर्लुक्। शृणु, शृणुतात्। शृणुतम्। शृणुत। गुणावादेशौ। शृणवानि। शृणवाव। शृणवाम। अशृणोत्। अशृणुताम्। अशृण्वन्। अशृणोः। अशृणुतम्। अशृणुत। अशृणवम्। अशृण्व, अशृणुव। अशृण्म, अशृणुम। शृणुयात्। शृणुयाताम्। शृणुयुः। शृणुयाः। शृणुयातम्। शृणुयात। शृणुयाम्। शृणुयाव। शृणुयाम। श्रूयात्। अश्रौषीत्। अश्रोष्यत्॥ गमॢ गतौ॥ २०॥
न्यासः
उतश्च प्रत्ययादसंयोगपूर्वात्?। , ६।४।१०६

"उकारो योऽसंयोगपूर्वः" इति। अविद्यमानः संयोगः पूर्वो यस्मास्त तथोक्तः। एतेनासंयोगपूर्वग्रहणमकारविशेषणमिति दर्शयति। स एवं विध उकारः प्रत्ययस्य विसेषणम्(), विशेषणेन च तदन्तविधिर्भवतीत्याह--"तदन्तात्()" इत्यादि। किमर्थं पुनस्तदन्तदिधिरब्युपगम्यते? "सुन्? चिन्वित्यत्र यथा स्यात् अस्त्वेतत्? प्रयोजनम्(), अयं तु दोषः--तनु, कुर्वित्यत्र न प्राप्नोति, अत्र ह्रुकार एव प्रत्ययः न तदन्तः? अत्रापि व्यपदेशिवद्भावेन तदन्तत्त्वं प्रत्ययस्यास्तीत्यदोषः। "कुरु" इति। धातोर्गुणे रपरत्वे च कृते "अत उत्सार्वधातुके" ६।४।११० इत्युत्त्वम्()। "तरुणुहि" इति। "तूनूकरणे तक्षः" ३।१।७६ इति श्नुः। "च्छन्दोवावचनम्()" इति। अभिधानेऽभिधेयोपचाराद्वार्थो विकल्पो वाशब्देन विवक्षितः। उच्यते व्याख्यायतेऽनेनेति वचनम्(), वार्थस्य वचनं वावचनम्(), छन्दसि वावचनं छन्दोवावचनमिति "सप्तमी" (२।१।४०) इति योगविभागात्? समासः। "छन्दसि वेति वक्तव्यम्()" इति। छन्दसि विषये विकल्पेनायं विधिर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--उत्तरसूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषः, सा च व्यवस्थितविभाषा। तेन छन्दसि विषये विकल्पेनायं विधिर्भवतीति। "धिनुहि, कृणुहि" इति। "हिवि दिवि, धिवि, प्रीणनार्थाः" (धा।पा।५९१-५९३), "कृवि हिंसाकरणयोः" (धा।पा।५९८) इदित्वान्नुम्(), "धिन्विकृण्व्योर च" ३।१।८० इत्युप्रत्ययः, अकारश्चान्तादेशः, तस्य "अतो लोपः ६।४।४८ इति लोपः॥
बाल-मनोरमा
उतश्च प्रत्ययादसंयोगपूर्वात् १७३, ६।४।१०६

उतश्च।हेर्लुक्स्यादिति। "चिणो लु"गित्यतो"ऽतो हे"तित्यतश्च तदनुवृत्तेरिति भावः। लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेर्निभावमाडुत्तमस्येत्याडागमं च बाधित्वा परत्वादुकारस्य "लोपश्चास्यान्यतस्या"मिति लोपमाशङ्क्याह-- नित्यत्वादित्यादि। निभावस्याप्युपलक्षणम्। उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयोः कृतयोरुकारलोपस्याऽप्रसक्तौ आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुणेऽवादेशे च धिनवानीति रूपमिति भावः। अधिनोत्। धिनुयात्। धिन्व्यात्। अधिन्वीत्। अधिन्विष्यत्। कृणोतीत्यादीति। धिविव्दरूपाणीति भावः। अयं स्वादौ चेति। कृविरित्यर्थः। अव रक्षणेति। स्वाम्यर्थः- ऐ()आर्यम्। मा भवानवीदिति। "नेटी"ति न वृद्धिः। मव्यादयोऽवत्यन्ताः पर्समैपदिनो गताः। धावु गतीति। उदिदयम्। स्वरितेदिति। ततश्च कर्तृगामिनि फले आत्मनेपदम्, अन्यथा परस्मैपदमित भावः। अथोष्मान्ता इति। तत्र "धुक्षे" त्यारभ्य कासृधातोः प्राक् षकारान्ताः। तत्र क्लेशधातुरेकः शकारान्तः। दीक्षमौण्ड()एति। णेषृधातुर्णोपदेशः। कासृधातुमारभ्य ईहधातोः सकारान्ताः। कासांचक्र इति। कास्प्रत्ययादित्याम्। णासृधातुर्णसधातुश्च णोपदेशः। आङ शसीति। आङः परः शसिधातुरिच्छायामित्यर्थः। ईहेत्यारभ्य काशृधातुवर्जं घुषि कान्तीत्यतः प्राक्--हकारान्ताः। काशृधातुस्तु शकारान्तः। प्लिहहधातुरदुपधः। ऊह वितर्के इति। युक्त्या अर्थनिर्णयो वितर्कः। "अनुक्तमप्यूहति पण्डितो जनः" इत्यत्र तु अनुदात्तेत्त्वलक्षणात्मनेपदमनित्यमिति बोध्यम्। गाह्()धातुरूदित्त्वाद्वेट्। तदाह--जगाहिषे जघाक्षे इति। इडभावे जगाह् से इति स्थिते "हो ढः", "एकाच" इति भष्भावेन गस्य घः, "ष()ढो"रिति ढस्य कः, सस्य षः। जगाहिढ्वे जगाहिध्वे इति। इट्पक्षे "विभाषेटः" इति ढत्वविकल्पः। इडभावे त्वाह-- जघाढ्व इति। जगाह्()ध्वे इति स्थिते हस्य ढः, धस्य ष्टुत्वेन ढः, गस्य भष् घकारः। पूर्वस्य ढस्य "ढो ढे लोपः" इति वक्ष्यमाणो लोपः। ढलोपसूत्रं त्विहैव पठितुं युक्तम्। गाहितेति। इट्पक्षे रूपम्।

तत्त्व-बोधिनी
उतश्च प्रत्ययादसंयोगपूर्वात् १४७, ६।४।१०६

कृवि। अयमिति। कृणोतीत्यादिरित्यर्थः। स्वादौ हि कृवीत्ययंधातुर्न पठ()ते, किंतु कृञ् हिंसायामिति। तस्य च परस्मैपदेषु सार्वधातुके कृणोतीत्यादीनि रूपाणि तुल्यानीति फलितोऽर्थः। अव रक्षणे। एकोनविंशतिरर्थाः। कान्तिः-- शोभा। दीप्तिस्तेज इत्याहुः। तृप्तिः-- इच्छानाशः। स्वाम्यर्थः-- स्वामित्वम्। हिंसा-- हननम्। आदानं-- ग्रहणम्()। न चात्र दानमेवार्थोऽस्त्विति वाच्यम्। "भागे वृद्धौ ग्रहे वधे" इत्येवमर्थानां विशिष्य बोपदेवेन गणितत्वनात्। भिक्ष। याच्ञालाभाऽलाभास्त्रयोऽर्थाः। स्वामी तु "क्लेश अव्यक्तायां वाचि चे"ति पठित्वा इमावपि भिक्षधातोरर्थाविति मन्यते। "क्लिश उपतापे" इति दिवादौ। "क्लिशू विबाधने" इति क्र्यादौ। दीक्ष। पञ्चार्थाः। ईष गति। "गुरोश्च हलः" इत्यप्रत्यये टाप्। ईषा। मनस ईषा--मनीषा। शकन्ध्वादिः। मनीषामभिनिविष्टं मनीषितम्। "प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चे"ति णिचि तदन्तात् क्तः। "ईष उञ्छे" इतितु परस्मैपदेषु। ह्यस्वादयरुआयः। "इष गतौ" दिवादिः। "इष इच्छायां" तुदादिः। "इष आभीक्ष्ण्ये" क्र्यादिः।

कासांचक्रे इति। "कास्प्रत्यये"त्याम्। भासृ दीप्तौ। अस्य ऋदित्त्वं भ्राजतेरिव तङ्मात्रफलकम्। "भ्राजभासे"त्यादिनोपधाह्यस्वस्य विकल्पितत्वात्। णस कौटिल्ये। लिण्निमित्तादेशादित्वाऽभावादेत्वम्। नेसे। आङः शसि। "शंसु स्तुता"विति तु पसस्मैपदिषु वक्ष्यते। ग्रसु ग्लसु। "उदितो वे"ति क्त्वायां वेट्। ग्रसित्वा। ग्रस्त्वा। "यस्य विभाषे"ति नेट्। ग्रस्तः। वेह्म जेह्म वाह्म। आद्य इति। वेहतेरति प्रत्यये वेहच्छब्दो निपातितः "पोटायुवती"ति सूत्रे इति भावः। "वेहद्गर्भोपघातिनी"। अन्त्य इति। बाहुशब्दस्य भुजपर्यायस्य, "क्षुब्धस्वान्तध्वान्ते"ति निपातितस्य बाढशब्दस्य च निर्विवादत्वादिति भावः। दन्त्योष्ठ()आदी इति। "उभावपी"त्यनुषज्यते। अनुदात्तेत्वकृतमात्मनेपदमनित्यम्। तेन "ववाह रक्तं पुरुषास्ततो जाताः सहरुआशः" इति सिद्धम्। न चात्राऽर्थासङ्गतिः, धातूनामनेकार्थत्वात्प्ररुआवणार्थकत्वे बाधकाऽभावादित्याहुः। ऊह। कथं तर्हि "अनुक्तमप्यूहति पण्डितो जनः इति?। अत्राहुः--- अनुदात्तेत्त्वलक्षणस्य तङोऽनित्यत्वान्न दोष इति। गाहू। ऊदित्त्वादिड्वा। इहभावे ढत्वम्। "एकाचः" इति भष्भावः। "षढो कः सी"ति कः। कात्परस्य षत्वम्-- जघाक्षे। "विभाषेटः" इति वा मूर्धन्यः। जगाहिढ्वे। जगाहिध्वे। इडभावे तु भष्भाव। "ढो ढे लोपः" -- जघाढ्वे। ढे किम्?। ऊढः। इह पूर्वं ढलोपो माभूत्। कृते तु ढेग्रहणे "ष्टुना ष्टु"रित्यस्य आश्रयात् सिद्ध्तवं भवतीति सिद्धमिष्टमित्याहुः।