पूर्वम्: ६।४।४८
अनन्तरम्: ६।४।५०
 
सूत्रम्
यस्य हलः॥ ६।४।४९
काशिका-वृत्तिः
यस्य हलः ६।४।४९

हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्। यस्य इति सङ्घातग्रहणम् एतत्। तत्र अलो ऽन्त्यस्य १।१।५१ इत्येतन् न भवति, अतो लोपः ६।४।४८ इति यकारो ऽनेन लुप्यते। सङ्घातग्रहणम् किम्? ईर्ष्यिता। मव्यिता। हलः इति किम्? लोलूयिता। पोपूयिता।
लघु-सिद्धान्त-कौमुदी
यस्य हलः ७१८, ६।४।४९

यस्येति संघातग्रहणम्। हलः परस्य यशब्दस्य लोप आर्धधातुके। आदेः परस्य। अतो लोपः। वाव्रजाञ्चक्रे। वाव्रजिता॥
न्यासः
यस्य हलः। , ६।४।४९

"बेभिदिता" इति। यङ्न्तादार्धधातुकं तृच्(), तस्मिन्? परतो यशब्दस्य लोपः। "यस्य" इतीदं वर्णनिर्देशो वा स्यात्? यकाराकारग्रहणं वा? तत्र यद्याद्यः पक्ष आश्रीयेत तदोर्ष्यिता, मव्यितेत्यत्रापि स्यादिति द्वितीयं पक्षमाश्रीत्याह--"यस्येति सङ्घातग्रहणम्()" इति। कुत एतत्()? निर्देशात्()। यदि वर्णग्रहणं स्यात्(), तदा "यो हलः" इत्येवं ब्राऊयात्()। यदि तर्हि सङ्घातग्रहणम्()? एवं तर्हि "अलोऽन्त्यस्य" १।१।५१ इत्यन्त्यस्य स्यादित्यत आह--"तत्रालोऽन्त्यस्य" इत्यादि। कस्मान्न प्रवर्तते? इत्याह--"अतो लोपः" इत्यादि। पूर्वेणाप्यलोऽन्त्यस्य लोपः सिद्धः, तत्रारम्भसामथ्र्यात्? सर्वस्य भवति। "हल इति वा" इत्यादिना परीहारान्तरमाह। "हलः" इति पञ्चमीनिर्देशः, तत्र "हल उत्तरो यो यशब्दस्तस्य लोपः" इत्युच्यमाने "आदेः परस्य" (१।१।५४) इति वचनाद्? यकारस्यैवनेन लोपो भवति। अकारस्य तु "अतो लोपः" ६।४।४८ इत्यनेन। "ईर्ष्यिता, मव्यित"["भव्यिता" इति न्यासमद्रितपाठः] इति। "सूक्ष्र्यं इक्ष्यं ईष्र्य ईष्र्यार्थाः" (धा।पा।५०९,५१०,५११), "मव्य बन्धने" (धा।पा।५०८)। अत्र सङ्घातात्मको यशब्दो न भवतीति न प्रवर्तते लोपः। "लोलुयिता" इति। यङः, "गुणो यङलुकोः" ७।४।८२ इति गणः॥
तत्त्व-बोधिनी
यस्य हलः ३९८, ६।४।४९

यस्य हलः। सङ्घातग्रहणमिति। तेन ईर्ष्यिता अहर्यीदित्यादौ यलोपो न। सङ्घातग्रहणेन चाऽर्थवद्ग्रहमपरिभाषोपस्थित्या पुत्रकाम्येत्यादौ नातिप्रसङ्गः। वर्णग्रहणे तु उक्तपरिभाषाया अनुपस्थित्या स्यादेवाऽत्र यलोप इति भावः। हलः किम्?। लोलूयिता। पोपूयिता।