सूत्रम्
मयतेरिदन्यतरस्याम्॥ ६।४।७०
काशिका-वृत्तिः
मयतेरिदन्यतरस्याम् ६।४।७०
मयतेरिकारादेशो वा भवति ल्यपि परतः। अपमित्य, अपमाय।
लघु-सिद्धान्त-कौमुदी
अत आदेः ४४५, ६।४।७०
अभ्यासस्यादेरतो दीर्घः स्यात्। आत। आततुः। आतुः। आतिथ। आतथुः। आत। आत। आतिव। आतिम। अतिता। अतिष्यति। अततु॥
न्यासः
मयतेरिदन्यतरस्याम्?। , ६।४।७०
"न ल्यपि"
६।४।६९ इति प्रतिषेधादाकारस्य श्रवणे प्राप्ते सतीत्त्वमारभ्यते। "अपमित्य" इति।
"मेङ्? प्रणिदाने" (धा।पा।९६१)। "उदीचां माङी व्यतीहारे"
३।४।१९ इति क्त्वा, इत्त्वे कृते तुक्()। ननु च "अपमित्ययाचिताभ्यां कक्कनौ" (४।४।
२१) इति निपातनात्? सिद्धमेतत्? तदपार्थकोऽयमारम्भः? नैतदस्ति; "चाधकान्यपि निपातनानि भवन्ति" (नी।प।वृ।१०९) इति पक्षे अपमायेति न स्यात्()।
"माङ्? माने" (धा।पा।१०८८) ["माने शब्दे च"--धा।पा।
] इत्यस्य भविष्यतीति चेत्()? न; अर्थभेदात्()। अथापि "अबाधकान्यपि निपातनानि" (नौ।प।वृ।
११०) स्युः? एवमप्यारब्धव्यमेवेदमसन्देहार्थम्()? असति ह्रस्मिन्? सन्देहः स्यात्()--किं मयतेरिदं निपातनम्(), अथ धात्वन्तरस्येति। उपसर्गनियमश्च विज्ञायेत--अपपूर्वस्यैवेति। अ()स्मस्तु सत्यन्योपसर्गस्यापि भवतीत्येतदर्थो युक्त आरम्भः॥
तत्त्व-बोधिनी
मयतेरिदन्यतरस्याम् १५८७, ६।४।७०
अपमित्येति। "समासेऽनञ्पूर्वे"ति वक्ष्यमाणेन क्त्वो ल्यपि तुक्। याचित्वा प्रणिददातीत्यर्थः।