पूर्वम्: ७।१।७१
अनन्तरम्: ७।१।७३
 
सूत्रम्
नपुंसकस्य झलचः॥ ७।१।७२
काशिका-वृत्तिः
नपुंसकस्य झलचः ७।१।७२

नपुंसकस्य झलन्तस्य च सर्वनामस्थाने परतो नुमागमो भवति। उदश्विन्ति। शकृन्ति। यशांसि। पयांसि। अजन्तस्य कुण्डानि। वनानि। त्रपूणि। जतूनि। नपुंसकस्य इति किम्? अग्निचिद् ब्राह्मणः। झलचः इति किम्? बहुपुरि। बहुधुरि। विमलदिवि। चत्वारि। अहानि। उगितो झलन्तस्य नपुंसकस्य परत्वादनेन एव नुम् भवति। श्रेयांसि। भूयांसि। कुर्वन्ति। कृषन्ति ब्राह्मणकुलानि। बहूर्जि प्रतिषेधो वक्तव्यः। बहूर्जि ब्राह्मणकुलानि। अन्त्यात् पूर्वं नुमम् एके इच्छन्ति। बहूर्ञ्जि ब्राह्मणकुलानि।
लघु-सिद्धान्त-कौमुदी
नपुंसकस्य झलचः २४०, ७।१।७२

झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥
न्यासः
नपुंसकस्य झलचः। , ७।१।७२

"पर्यासि, श्रोयांसि" इति। "सान्तमहतः संयोगस्य" ६।४।१० इति दीर्घः। "बहुपुरि, बहुधुरि" इति। बह्व्यः पुरः, बह्व्यो धुरो येषामिति बहुव्रीहिः। "ऋक्पुरब्धूः पथामानक्षे" ५।४।७४ इत्यकारः समासान्तो न भवति--"समासान्तविधिरनित्यः" (व्या।प।९४) इति कृत्वा। "विमलदिवि" इति। विमला द्यौर्येषामिति तानि। विमलदिवि वकारो दन्त्यौष्ठ()ओ झल्? न भवति, झलः पूर्वेण पठितत्वात्()। "चत्वारि" इति। "चतुरनडुहोरामुदात्तः" ७।१।९८ इत्याम्()। इह यदुगिन्नपुंसकं झलन्तं नुमि कृते "उगिदचाम्()" (७।१।७०) इत्यादिना द्वितीयो नुम्? प्राप्नोति; सम्भवति हि विधानकालेनेकस्य परत्वम्(), यथा--पचतीत्यत्र लकारविकरणयोरेकस्माद्धातोरिति। अत्र तुदन्ति, नदन्तीत्यत्र परसय नुमोऽनुस्वारे कृते तसय परसवर्णे च द्वयोर्नकारयोः श्रवणमापद्येत? भवतु नाम, हल्परस्य व्यञ्जनस्यैकस्यानेकस्य श्रुतिं प्रति नास्ति विशेषः शक्यते वक्तुम्()। इह त्वस्ति विशेषः--कुर्वन्ति, कृषन्तीत्यत्र परस्य नुमोऽनुस्वारसवर्णयोः कृतयोः पूर्वस्याझल्परत्वादनुस्वारपरसवर्णौ न स्त इति अट्कुप्वादिना ८।४।२ णत्वं प्राप्नोति। एक()स्मस्तु नुमि तस्यानुस्वारे परसवर्णे कृते न भवति णत्वप्रसङ्गः; परसवर्णस्यासिद्धत्वात्()। तस्मादुगिल्लक्षणस्य नुमः प्रतिषेधो वक्तव्य इत्याह--"उगितो झलन्तस्य" इत्यादि। झलन्तलक्षणस्य नुमोऽवकाशो यदनुगिन्नपुंसकम्()--सर्पीषीति, उगिल्लक्षणस्यावकाशो यदुगिदनपुंसकम्()--गोमान्? यवमानिति; यदुगिज्झलन्तं नपुंसकं तस्योभयप्रसङ्गे सति परत्वादनेनैव नुमा भवितव्यम्(), तस्मिन्? सति पुनरुगिल्लक्षणो नुम्? न भवति--"सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव" (व्य।प।४०) इति कृत्वा। "भूयांसि" इत#इ। बहुशब्दादीयसुन्(), "बहोर्लोपो भू च बहोः" ६।४।१५८ इतीकारस्य लोपः, बहोश्च भूभावः। "कुर्वन्ति, कृषन्ति" इति। शत्रन्तात्? "जश्शसोः शिः" ७।१।२० इति शिभावः। "बहुर्जि" इत्यादि। बहूर्जीत्यस्मिन्? नुभः प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--"विभाषा चिण्णमुलोः" ७।१।६९ इति विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा, तेन बहूर्जीत्यत्र न भवति। "उर्ज बलप्राणधारणयोः (धा।पा।१५४९) ["बलप्राणनयोः" धा।पा।] इत्येतस्मात्? "भ्राजभ्रास" ३।२।१७७ इत्यादिना क्विप्(), बहव ऊर्जो बलानि येषां तानि बहूर्जि ब्राआहृणकुलानि। "अन्त्यात्पूर्वम्()" इति। अन्त्यो जकारः, तस्मात्पूर्वं नुममिच्छन्ति केचित्()--बहूर्ञ्जीति॥
बाल-मनोरमा
नपुंसकस्य झलचः ३१२, ७।१।७२

नपुंसकस्य। झल्व अच्चेति समाहारद्वन्द्वः। तेन च अङ्गस्येत्यधिकृतं विशेष्यते। तदन्तविधिः। "इदितो नु"मित्यतो नुमित्यनुवर्तते। तदाह--झलन्तस्येत्यादिना। मित्त्वादन्त्यादचः परः। उपधादीर्घ इति। ज्ञानन् इ इति स्थिते "सर्वनामस्थाने चे"ति दीर्घ इत्यर्थः। पुनस्तद्वदिति। अमौट्शस्सु ज्ञानं ज्ञाने ज्ञानानि इति क्रमेण रूपाणीत्यर्थः। शेषं रामवदिति। शिष्यत इति शेषम्। कर्मणि घञ्। "घञजबन्ताः पुंसी"ति तु प्रायिकमिति भावः।

तत्त्व-बोधिनी
नपुंसकस्य झलचः २७४, ७।१।७२

नपुंसकस्य झलचः। "इदितो नुम् धातो"रित्यतो नुमनुवर्तते। "उगिदचा"मित्यतः "सर्वनामस्थाने"इति च। "अङ्गस्ये"ति चाघधिकृतम्। तथाच झलज्भ्यां नपुंसतमङ्गं विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह---झलन्तस्येत्याद।