रध हिंसासंसिद्ध्योः इत्येवम् आदिभ्यो ऽष्टाभ्य उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति। रद्धा, रधिता। नंष्टा, नशिता। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। द्रोग्धा, द्रोढा, द्रोहिता। मोग्धा, मोढा, मोहिता, स्नोग्धा, स्नोढा, स्नोहिता। स्नेग्धा, स्नेढा, स्नेहिता। क्रादिनियमाल् लिटि रधादिभ्यः परत्वाद् विकल्पं केचिदिच्छन्ति। अपरे पुनराहुः, पूर्वविधेरिण्निषेधविधानसामर्थ्यात् बलीयस्त्वं प्रतिषेधनियमस्य इति नित्यमिटा भवितव्यम्। ररन्धिव, ररन्धिम इति भवति।
रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात्। नेशिथ॥
"रथ हिंसासंराद्ध्योः" (धा।पा।११९३), "णश अदर्शने" (धा।पा।११९४,) "तृप प्रीणने" (धा।पा।११९५), "दृप हर्षणमोहनयोः" (धा।११९६),["हर्षमोहनयो"--धा।पा।] "द्रुह जिघांसायाम्()" (धा।पा।११९७), "मुह वैचित्त्ये" (धा।पा।११९८), "ण्णुह द्धद्गिरणे" (धा।पा।११९९) ष्णिह प्रीतौ" (धा।पा।१२००)--इत्येते रधादयः। एषु तृप्यतिदृप्यत्योरनुदात्तत्वादिट्प्रतिषेधे प्राप्ते शेषाणामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पार्थं वचनम्()। "नंष्टा" इति। "मस्जिनशोझंलि"
७।१।६० इति नुम्()। व्रश्चादिसूत्रेण
८।२।३६ षत्वम्(), ष्टुत्वम्()। "त्रप्तः" इति। "अनुदात्तस्य चर्दुपधस्यान्यतस्याम्()"
६।१।५८ इत्यम्(), यणादेशः। "तर्पिता" इति। लघूपधगुणः। द्रोग्क्षा, मेग्धा, स्नोध्या, स्नेग्धेतीडभावपक्षे "वा द्रुहमुहण्णुहण्णिहाम्()"
८।२।३३ इति घत्वम्(), "झषस्तथोर्षोऽधः"
८।२।४० इति धत्वम्(), "झलां जश् झशि"
८।४।५२ इति जश्त्वं गकारः। "द्()रोढा, ञोढा, स्नोढा स्नेढा" इति। पूर्ववङ्ढत्वादि विधेयम्()।
"क्रादिनियमाल्लिटि रधादिभ्यः परत्वाद्विकल्पं केचिदिच्छन्ति" इति। पक्षे ररध्व, ररध्मेत्याद्यपि यथा स्यात्()। "अपरे पुनः" इत्यादि। एतदेव हि पूर्वविधेरिट्()प्रतिषेधविधानस्य प्रयोजनम्()--प्रतिषेधस्य बलीयस्त्वं यथा स्यादिति।
तस्मात्? प्रतिषेधनिययमस्या बलीयस्त्वान्नित्यमिटा भवितव्यम्()।
तत्र पूर्वेषामयमभिप्रायः--पूर्वविधेरिट्प्रतिषेधविधानसामाथ्र्यात्? प्रतिषेधस्य बलीयस्त्वं भवति, न तु प्रतिषेधनियमस्येति।
इतरेषामयमभिप्रायः--प्रतिषेधस्य बलीयस्त्वात्? तद्धर्मस्य नियमस्यापि बलीयस्त्वं भवति, न तु प्रतिषेधस्यैवेति तस्य बलीयस्त्वे सति तत्प्राप्तिः, तेन नित्()यमिटा भवितुं युक्तमिति। प्रतिषेधनियमस्तु स एव क्रादिनियमः। "ररन्धिव, ररन्धिम" इति। "रधिजभोरचि"
७।१।६१ इति नुम्()॥