पूर्वम्: ७।२।८८
अनन्तरम्: ७।२।९०
 
सूत्रम्
योऽचि॥ ७।२।८९
काशिका-वृत्तिः
यो ऽचि ७।२।८९

अजादौ विभक्तौ अनादेशे युष्मदस्मदोः यकारादेशो भवति। त्वया। मया। त्वयि। मयि। युवयोः। आवयोः। अचि इति किम्? युवाभ्याम्। आवाभ्याम्। युष्मदस्मदोरनादेशे ७।२।८६ इत्यत्र यदि हलि इति अनुवर्तते, शक्यमकर्तुम् अचि इति एतत्? तत् क्रियते विस्पष्टार्थम्। अनादेशे इत्येव। त्वद् गच्छति। मद् गच्छति।
लघु-सिद्धान्त-कौमुदी
योऽचि ३२२, ७।२।८९

अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः। त्वया। मया॥
न्यासः
योऽचि। , ७।२।८९

"युष्मदस्मोदारमादेश इत्यत्र" इत्यादि। "युष्मदस्मदोरनादेशे" (७।२।८६) इत्यत्र यदि पूर्वसूत्राद्? ७।२।८५ हल्ग्रहणमनुवत्र्तते, तदाऽविशेषेम विधीयमानं यत्वमुत्सर्गो ज्ञाप्यते। आत्वं तु विभक्तिविशेषे हलादौ विधीयमानमस्याप्यपवादः। एवं चाप्यन्तरेणाप्यज्ग्रहणम्(), यकारोऽजादावेवावतिष्ठते, तस्मदचीत्येच्छक्यमकर्त्तुम्()? तत्? क्रियते विस्पष्टार्थम्()। "स्वद्? गच्छति, मद्? गच्छति" इति। "एकवचनस्य च" ७।१।३२ इति ङसेरदादेशः॥
बाल-मनोरमा
योऽचि , ७।२।८९

योऽचि। "युष्मदस्मदोरनादेशे" इत्यनुवर्तते। "अष्टन आ विभक्तौ" इत्यतो "विभक्ता"विति चानुवर्तते। "अची"ति विभक्तिविशेषणं। तदादि विधिस्तदाह--अनयोरिति। युष्मदस्मदोरन्त्यस्येत्यर्थः। अचि किम्?, युवाभ्याम्। अनादेशे किम्?, त्वत्, मत्। "पञ्चम्या अत्" इत्यदादेशे सति न यत्वम्। "युष्मद् आ, अस्मद् आ इत्यत्र "त्वमावेकवचने" इति मपर्यन्तस्य त्वमादेशयोर्दकारस्य यत्वे पररूपे च रूपमिति भावः।

तत्त्व-बोधिनी
योऽचि ३४९, ७।२।८९

योऽचि। अचि किम्()। युवाभ्याम्। यदि तु "युष्मदस्मगदोरनाद्शे"इत्यत्र "रायो हली"त्यतो हलीत्यनुवर्तते तदेहा"ऽची"ति मास्तु, परिशेषादेव सिद्धेः।